________________
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २४९ ३०४॥ कपिष्ठलो गोत्रे ।।३।९।' इति साधुः । तत्तुल्यतेजसां द्विजातीनां वृत्ते चरिते स्थितां मैथिली [रात्रौ] ऐक्षत ॥
कीदृशीमित्याह७५७-सर्व-नारी-गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम् ॥
शयानां कु-ष्ठले तारां दिवि-ष्ठामिव निर्मलाम् ॥८४॥ सर्वेत्यादि-यावन्तो नारीगुणाः तैः प्रष्ठां अग्रगामिनीम्। '२१९७। प्रष्टो. ऽप्रगामिनि ।।३।९२।' इति साधुः । विष्टरस्थामासनस्थाम् । '३२३३। वृक्षासनयोर्विष्टरः ।८।३।९३॥' इति साधुः । गविष्ठिरां वाचि स्थिराम् । '९६७। गवि. युधिभ्याम्-1८।३।९५।' इति षत्वम् । असादेव वचनात् सप्तम्या अलुक् । कुष्ठले शयानां कोः स्थले भूतले शुद्धे । '३०९५। मिकु-शमि-1८।३।९६।' इत्यादिना षत्वम् । दिविष्ठां दिवि तिष्ठतीति २९१६। सुपि स्थः ।३।२।४।' इति कः । ९७२। तत्पुरुषे कृति बहुलम् । ६।३।१४।' इति सप्तम्या अलुक् । गगनस्थां तारामिव निर्मलाम् । '२९१८। अम्बाम्ब-८।३।९७।' इत्यादिना षत्वम् ॥ ७५८-सु-पानी सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम् ॥
निष्टपन्तीमिवा ऽऽत्मानं ज्योतिःसात्-कुर्वती वनम्८५ सुषानीमित्यादि-शोभनं साम यस्या इति विगृह्य '४६२॥ अन उपधालोपिनोऽन्यतरस्याम् ।।१।२८।' इति ङीप् । “१०२२। सुषामादिषु च ।।३। ९४।' इति षत्वम् । सुष्टु प्रियंवदामित्यर्थः । तन्वीं कृशाम् । शुभां कल्याणीम् । सर्वतेजस्सु ज्योतिष्टमां अतिशयेन ज्योतिष्मतीम् । '१३२५। हूस्वात्तादौ तद्धिते 1८।३।१०॥ इति षत्वम् । एवं च कृत्वा निष्टपन्तीमिवात्मानं सकृजवलयन्ती. मिवात्मानम् । '२४०३। निसस्तपतावनासेवने ।।३।१०२।' इति षत्वम् । वनं ज्योतिःसात्कुर्वती अज्योतिज्योतिः कुर्वाणाम् । कास्येन दीपवतीमित्यर्थः । कात्सर्ये सातिप्रत्ययः । तत्र '४३४॥ नुम् विसर्जनीय-८।३।५।' इत्यादिना प्राप्तस्य षत्वस्य '२१२३। सात् पदाद्योः ।।३।११॥' इति प्रतिषेधः । युष्मदित्यादि नोदाहृतं छान्दसत्वात् ॥ ७५९-मधुसाद्-भूत-किञ्जल्क-पिञ्जर-भ्रमराऽऽकुलाम् ॥
उल्लसत्-कुसुमां पुण्यां हेम-रत्न-लतामिव ॥ ८६ ॥ मध्वित्यादि-मधुसाद्भूतकिझल्कं कात्सर्येन मधुतामापन्नं यत्किालक पुष्पकेसरं तन्मधुसाद्भूतकिझल्कम् । '२१२। आदेश-प्रत्यययोः ।।३।५९।' इति प्राप्तस्य पूर्ववत्प्रतिषेधः । तेन पिञ्जराः पिङ्गलाः ये भ्रमराः तैराकुलाम् । उल्लसस्कुसुमां चलत्पुष्पाम् हेमरत्नलतामिव । यथा हेमरत्नमयीं कल्पतरुलतां पुण्यां पवित्रां तद्वत्तामपीत्यर्थः॥ ७६०-विलोचनाऽम्बु मुश्चन्तीं कुर्वाणां परि-सेसिचाम् ॥
हृदयस्यैव शोकाऽग्नि-संतप्तस्यौत्तम-व्रताम् ॥ ८७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com