________________
२४८ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः, ७५२ - 'अग्निष्टोमादि - संस्थेषु ज्योतिष्टोमाऽऽदिषु द्विजान् ॥ यो ऽरक्षीत्, तस्य दूतो ऽयं मानुषस्यैति चाऽवदन्. ७१ अग्नीत्यादि - भग्निष्टोमादिसंस्थेषु सदृशेषु ज्योतिष्टोमादिषु यो द्विजानरक्षीत् तस्य मानुषस्यायं दूत इति चावदन् नयन्तो द्विषः । '९२४। अग्नेः स्तुत् स्तोमसोमाः | ८|३|८२|' | '१०२१। ज्योतिरायुषः स्तोमः | ८|२|८३ |' इति पत्वम् । ७५३ - ' नासां मातृष्वसेय्याश च रावणस्य लुलाव यः, ॥
•
मातुः स्वसुश् च तनयान् खराऽऽदीन् विजघान यः ॥ नासामित्यादि -- रावणस्य या मातुः स्वसा भगिनी सा मातृष्वसा । ' ९८३ ॥ मातृ-पितृभ्याम् - १८:३२८४।' इति षत्वम् । तस्या अपत्यं मातृष्वसेयी ' ११४० | मातृष्वसुश्च ।४।१।१३४॥' इति ठगन्तलोपौ । तस्या यो नासां लुलाव । मातुः स्वसुश्च तनयान् खरादीन्निजघान । '९८३ । मातुः पितुर्भ्यामन्यतरस्याम् ||३|८५ ा' इति षत्वाभावपक्षे '९८२ | विभाषा स्वसृपत्योः | ६ ३ | २४|' इति षष्ठया भलुक् ॥ ७५४ - प्रादुःषन्ति न संत्रासा यस्य रक्षः - समागमे, ॥
तस्य क्षत्रिय - दुःषूतेयं प्रणिधिगतः ॥ ८१ ॥
प्रादुरित्यादि - यस्य रक्षः समागमे संत्रासाः भयानि न प्रादुःषन्ति न प्रादुर्भवन्ति । '२४७२ । उपसर्गप्रादुर्भ्याम् |८|३|८७१' इत्यादिना दुःशब्दादुत्तरस्यास्तिसकारस्य ‘२४६९ | सोरल्लोपः | ६ | ४|१११।' इत्यल्लोपे कृते षत्वम् । प्रादुः सकारस्य च त्वम् । तस्य क्षत्रियदुः पूतेः दुष्पुत्रस्यायं प्रणिधिरागत इति चावदन् नयन्तः । सूयत इति सूतिः । दुर्निन्दायामिति सूतेः सकारस्य ' २४७७ सु-वि-निर्-दुर्भ्यः - १८|३|८८|' इति षत्वम् ॥
७५५ - दृष्ट्वा सुषुप्तं राजेन्द्रं पापो ऽयं विषमा॒ऽशयः ॥
चार - कर्मणि निष्णातः प्रविष्टः प्रमदावनम् ॥ ८२॥
दृष्ट्वेत्यादि - राजेन्द्रं रावणं दृष्ट्वा प्रमदावनं प्रविष्टः । सुषुप्तं गाढ निद्रम् । '२४०९ । वचि - ६।१।१५ ।' इत्यादिना सम्प्रसारणम् । पापोऽयं विषमाशयः । '२४७७॥ सुपि - ८ । ३।८९।' इत्यादिना षत्वम् । चारकर्मणि निष्णातः कुशलः । '३०८२ । नि-नदीभ्यां स्वातेः कौशले |८|३|४९ |' इति षत्वम् ॥
कुलकम् ८३-८७
७५६ - सुप्रतिष्णात- सूत्राणां कपिष्ठल- सम- त्विषाम् ॥
स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम् ॥ ८३ ॥ सुप्रतीत्यादि - येषां द्विजातीनां सुप्रतिष्णातानि ग्रन्थतोऽर्थतश्च निश्चितानि सूत्राणि तेषां सुप्रतिष्णातसूत्राणाम् । '३०८३। सूत्रं प्रतिष्णातम् | ८|३ | ९० | ' इति निपातनम् । कपिष्ठलसमत्विषां कपिष्ठलो नाम द्विजर्षभो गोत्रप्रवर्तकः । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com