________________
तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नामनवमः सर्गः - २४७
विष्यन्देत्यादि - विष्यन्दमानरुधिरः क्षरद्वक्तः कपिः परिषेणाहन् ताडितवान् । द्विषः शत्रून् । रक्तविस्यन्दपाटलान् रक्तनुति लोहितान् । '२३४९ । अनुवि-पर्यभि-निभ्यः स्यन्दते :- १८|३|७२१' इति विभाषा षत्वं रक्तस्याप्राणित्वात् । विष्कन्तून् । विविधं स्कन्तुं गन्तुं शीलमेषामिति तृन् । अविस्कन्ता कपिः अगमनशीलः स्थानशील इत्यर्थः । '२३९८ । वेः स्कन्देरनिष्ठायाम् |८|३|७३ |' इति विभाषा पत्वम् ॥
७४८ - मेघनादः परिस्कन्दन् परिष्कन्दन्तमा॑व॑रम् ॥
अवघ्नादपरिस्कन्दं ब्रह्म- पाशेन विस्फुरन्. ॥ ७५ ॥
मेघनाद इत्यादि - मेघनाद इन्द्रजित् परिस्कन्दन् परितो भ्रमन् । परिकन्दन्तं परिभ्रमन्तमरिं कपिं ब्रह्मपाशेन ब्रह्मणा दत्तेन पाशेन शीघ्रमबनात् बद्धवान् । लिङि श्राप्रत्यये रूपम् । '२३९९ | परेश्व |८|३|७४ | ' इति वा पत्वम् । अपरिस्कन्दं अप्राच्यभरतत्वात् । तेन 'परिस्कन्दः प्राच्यभरतेषु' इति निपातनम् । विस्फुरन् द्वेषादुद्गच्छन्नित्यर्थः । ' २५३७ । स्फुरति - स्फुलत्योः - १८१३१७६१ ' इति विभाषा षत्वम् ॥
७४९ - विस्फुलद्भिर् गृहीतो ऽसौ निष्कुलः पुरुषाऽशनैः ॥
विष्कम्भतुं समर्थोऽपि नाऽचलद् ब्रह्म- गौरवात्. ॥ विस्फुलद्भिरित्यादि - असौ कपिः पुरुषाशनैः राक्षसैः विस्फुलद्भिः हर्षाच्चलद्भिर्गृहीतः । निष्फुलः सतेजाः । निष्कुलति दीप्यतीति पचाद्यच् । पूर्ववद्विभाषा षत्वम् । विष्कम्भतुं व्यापारितुं समर्थोऽपि ब्रह्मगौरवान्नाचलत् न चलितः । मा भून्मोघो ब्राह्मः पाश इति । '२५५६ । वेः स्कनाते :- |८|३|७७१' इति षत्वम् । - कृषीढुं भर्तुरानन्दं मा न प्रोढुं द्रुतं वियत् ॥
वानरं नेतुमित्युच्चैरिन्द्र - जित् प्रावदत् स्वकान् ॥७७॥ कृषीवमित्यादि - भर्तुः रावणस्य आनन्दं कृषीढुं कुरुध्वम् । लिङि रूपम् । अतो वानरं द्रुतं नेतुं वियदाकाशं मा न प्रोढुं मा नोत्पतिष्ट । माङि लुङ् । '२२४७॥ इणः षीध्वम् - 1८1३।७७|' इति धकारस्य मूर्धन्यढकारः । इत्येवमुचैरिन्द्रजित् स्वकान् भृत्यान् प्रावदत् । वदेर्लङि रूपम् ॥
I
७५१ - 'गतम॑ङ्गुलि - षङ्गं त्वां भीरुष्ठानादिहा ऽऽगतम् ॥
•
1
खादिष्याम' इति प्रोचुर् नयन्तो मारुतिं द्विषः ॥ ७८ ॥ गतमित्यादि - अङ्गुलीनां सङ्गः अङ्गुलिषङ्गः । तं गतं प्राप्तं हस्तप्राप्तमित्यर्थः । १०१९ | समासे ऽङ्गुले सङ्गः | ८|३|८०|' इति षत्वम् । भीरोः कातरस्य यत् स्थानं तस्माद्भीरुष्ठानादिहागतम् । '१०२०। भीरोः स्थानम् ||३८११' इति षत्वम् । खादिष्याम इति प्रोचुः । द्विषो राक्षसा मारुतिं नयन्तो नेष्यन्तः । वर्तमानसामीप्ये भविष्यति लट् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com