________________
२४६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः,
विजेतुमिच्छुः इन्द्रजित् । '२३३१। सन्-लिटोजैः | ७|१|५७|' इति कुत्वम् । पुनर्यूहं बलसन्निवेशं दुर्जयाख्यं चक्रे । हस्त्यश्वादिसैनिकानां मण्डलस्थित्या विरच्यते ॥
७४४ - अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवा ऽऽत्मनः ॥ संप्रहार-समुद्भूतै रक्तैः कोष्णैरुश्च्युतैः. ॥ ७१ ॥
अभिष्यन्त इत्यादि - राक्षसाः क्रोधादात्मनोऽभिष्यन्तः अन्तं नयन्तः । ' १२१२ । षो ऽन्तकर्मणि ।' इत्यस्य शतरि '२५१० | ओतः इयनि । ७/३/७ १ ' इत्यो कारलोपः । '२२७०। उपसर्गात् |८|३|६५।' इति षत्वम् । संप्रहारसमुद्भूतैः रक्तैः कोष्णैरीषदुष्णैः । भरुभ्युतैः व्रणान्निर्गतैः । कपिमभ्यषिञ्चन्निव अभिषिक्तवन्त इव । लङि रूपम् । '२२७६। प्राक् सितादङ् व्यवायेऽपि |८|३|६३ |' इति पत्वम् ॥
I
७४५ - संग्रामे तान॑धिष्ठास्यन् निषद्य पुर- तोरणम् ॥
अविषीदन्न॑वष्टब्धान् व्यष्टनान् नर - विष्वणान् ॥७२॥
संग्राम इत्यादि - ये प्राणिनः अभिषिञ्चन्ति तान्नरविष्वणान् राक्षसान् । संग्रामे अधिष्टास्यन् भस्वतन्त्री करिष्यन् । कपिः । ' २२७० । उपसर्गात् |८|३|६५ ।' इति षत्वम् । पुरतोरणं पुरद्वारं व्यष्टनात् आश्रितवान् । निषद्य तत्रैव पुरतोरणे स्थित्वा प्राणिनो मा प्रविक्षुरिति अविषीदन् विषादमगच्छन् । निषद्य विषीदन्निति ‘२२७१। सदिरप्रतेः | ८|३ | ६६ ।' इति षत्वम् । भवष्टब्धान् अविदूरान् । — २२७३। भवाञ्चालम्बनाविदूर्ययोः | ८ | ३|६८ |' इति षत्वम् । व्यष्टनादिति भव्यवाये वेः '२२७३ | स्तम्भेः | ८|४|६७ |' इति षत्वम् । '२५५५ ॥ स्तम्भुस्तुम्भु - १३|१|८२१' इत्यादिना श्राप्रत्ययः । सशब्दायामभ्यवहारक्रियायां स्वनतिर्वर्तते । नराणां विष्वगा इति सः । नरान् सशब्दमभ्यवहरन्त इत्यर्थः । ‘२२७४। वेश्व स्वनो भोजने |८|३ | ६९ |' इति षत्वम् ॥
७४६ - विषह्य राक्षसाः क्रुद्धाः शस्त्र- जालमवाकिरन् ॥
यन् न व्यषहर्तेन्द्रो ऽपि; कपिः पर्यषहिष्ट तत्. ॥७३॥ विषह्येत्यादि - विषय सोढा कपिचेष्टितमित्यर्थात् । '२१२३ । सात्यदाद्योः २८|३|१११।' इति प्रतिषेधे प्राप्ते (२२७५ । परि नि विभ्यः | ८|३|७०|' इति बत्वम् । राक्षसाः क्रुद्धाः शस्त्रजालमवाकिरन् विक्षिप्तवन्तः । लङि रूपम् । यच शस्त्रजालमिन्द्रो ऽपि न व्यषहत न सोढवान् । लङि रूपम् । तत्कपिः पर्यषहिष्ट । लुङि रूपम् । सहेः '२३५९ । सिवादीनाम् |८|३|७११' इत्यादिना विभाषा पत्वम् ॥
७४७ - विष्यन्दमान - रुधिरो रक्त-विस्यन्द-पाटलान् ॥ विष्कन्तुन् परिघेणाहन्नविस्कन्ता कपिर् द्विषः ७४
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com