________________
मारुतिराषि
कति ११२
वात् ।
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमों' नाम नवमः सर्गः- २४५ इतःप्रभृति '२१०। 'अपदान्तस्य मूर्धन्यः ।।३।५५।' इत्यधिकृत्याह७४०-पुरुहूत-द्विषो धूर्षु युक्तान यानस्य वाजिनः ॥
आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्. ॥ ६७ ॥ पुरुहूतेत्यादि-पुरुहूतद्विष इन्द्रजितः . संबन्धिनो यानस्य रथस्य धूर्षु युक्तान् वाजिनः त्वक्षु चर्मसु निर्भिद्य प्राभञ्जनिर्मारुतिरायूंषि जीवितानि अमोचयत् त्याजितवान् । धूर्षु त्वक्ष्विति ११२। आदेश-प्रत्यययोः ।।३।५९।' इति षः । प्रत्ययसकारत्वात् । तत्र हि 'इण्कोः ' इति वर्तते। परेण च णकारेण प्रत्या. हारः । आयूंषीति '४३४॥ नुम्-विसर्जनीय-४॥३॥५०' इत्यादिना । '३३५॥ सहेः साडः सः ।।३।५६।' इति छन्दोविषयत्वान्नोदाहृतम् । ततः '३४०९॥ छन्दसि सहः ।३।२।६३॥' इति विप्रत्ययस्य विधानात् । एवं च पृतनाषाद्विष इति पाठान्तरमयुक्तम् ॥ ७४१-सुषुपुस् ते यदा भूमौ, रावणिः सारथिं तदा ॥
आहर्तुमन्यानं शिषत् प्रोषित-त्रास-कर्कशः. ॥ ६८ ॥ सुषुपुरित्यादि-ते यदा भूमौ सुषुपुः निपेतुः । आदेशसकारत्वात् पूर्ववत् पत्वम् । तदा रावणिरन्यानश्वानाहर्तुमानेतुं सारथिमशिषत् आदिष्टवान् । '२३. ८२। सर्ति-शास्ति-३।११५६।' इत्यङ् । '२४८६। शास इदङ्हलोः ।६।४।३४॥' इति इकारः । '२४१०। शासि-वसि-1८।३।६०' इति षत्वम् । प्रोषितत्रासः प्रोषितादामादुपगतभयः । कर्कशश्च रौद्रः । प्रोषित इति यजादित्वात्संप्रसारणम् । षत्वं पूर्ववत् ॥ ७४२-प्रतुष्टषुः पुनर युद्धमासिषनयिषुर् भयम् ॥
आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव. ॥ ६२॥ प्रतुष्टषुरित्यादि-अश्वा आनीता इति पुनरपि युद्धं प्रतुष्टषुः प्रस्तोतुमारधुमिच्छुः सन् । '२६१४। अज्झनगमा सनि ।६।४।१६।' इति दीर्घः । ३१४८॥ सनाशंसभिक्ष उः ।३।२।१६८' । '६२७। न लोक-२।३।६९।' इति षष्टीप्रतिषे. धः । रथमातस्थौ आरूढवान् । भयमासिषायियुः संश्लेषयितुमिच्छुः हनूमता। अत्र स्तोतेः सनि षत्वभूतसञश्च २६२७। स्तौति-ण्योः-1८।३।६॥' इति अभ्यासादुत्तरस्य षत्वम् । आत्मीयान् भृत्यानुत्सिसाहयिषन्निव उत्साह यितुमिच्छनिव युध्यध्वमिति । स्तौतीत्यादिना षत्वे प्राप्ते '२६२८। सः स्विदि-1८।३।६२.' इत्यादिना षकारस्य सत्वम् ॥ ७४३-बलान्य भिषिषिक्षन्तं तरुभिः कपि-वारिदम् ॥
विजिगीषुः पुनश् चक्रे व्यूहं दुर्-जयमिन्द्रजित्. ७० बलानीत्यादि-कपिवारिदं कपि वारिदमिव । बलान्यभिषिषिक्षन्तं तरुमिः अभिषेक्तुं छादयितुमिच्छन्तम् । '२२७७। स्थादिष्वभ्यासेन-1८।३।६४।' इत्यादिना तु सकारस्याभ्याससकारस्य च षत्वम् । तमेवंविधं कपिम् विजिगी. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com