________________
२४४ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः,
युग्मम् ६३-६४
७३६- द्विष्-कुर्वतां चतुष्-कुर्वन्न॑भिघातं नगैर् द्विषाम् ॥ बहिष् करिष्यन् संग्रामाद् रिपून् ज्वलन- पिङ्गलः ६३ द्विष्कुर्वतामित्यादि - असौ कपिराटीदिति वक्ष्यमाणेन संबन्धः । कीदृशः । द्विष्कुर्वतां द्वौ वारावभिघातं कुर्वतां द्विषां चतुष्कुर्वन् चतुरो वारान् नगैर्वृक्षैरभिघातं कुर्वन् । '१५७। द्वित्रिश्चतुरिति कृत्वो ऽर्थे | ८ | ३ | ४३ | ' इति विसर्जनीयस्य वा पत्वम् । अरीन् संग्रामाद्वहिष्करिष्यन् अपनेष्यामीति । ' १५८ | इसुसोः सामर्थ्य | ८|३|५४ |' इति विसर्जनीयस्य षत्वं पक्षे । सामर्थ्य चात्र व्यपेक्षा, नैकार्थीभावः । बहिष्करिष्यन्निति द्वयोः परस्परव्यपेक्षत्वात् ॥
the
७३७-ज्योतिष्कुर्वन्नि॑वैको ऽसावटीत् संख्ये परार्ध्य- वत्, ॥ तम॑ना॒युष्करं प्राप शक्र - शत्रुर् धनुष्करः ॥ ६४ ॥
.
ज्योतिरित्यादि - एको ऽपि ज्वलनपिङ्गलः ज्योतिष्कुर्वन्निव अग्निं दीपयनिव । पूर्ववत्पक्षे विसर्जनीयस्य षः । परार्ध्यवत् दिव्य इव । परार्थो द्युलोकः । ब्रह्माण्डसंबन्धिन ऊर्ध्वभागस्योत्कृष्टत्वात् । तत्र भव इति '१३७५ | परावराधम- |४|३|५|' इति यत् । संख्ये संग्रामे आटीत् परिचक्राम ' २२६६ । इट ईटि ८ | २|२८|' इति सिचो लोपः । तं वानर मनायुष्करं प्राणापहारिणं शक्रशत्रुरिन्द्रजित् प्राप प्राप्तवान् । धनुष्करः धनुः करे यस्येति । '१६९ | नित्यं समासे - |८|३|४५' इत्यादिना चत्वम् ॥ ७३८-अस्यन्नरुष्करान् बाणान् ज्योतिष् कर-सम-द्युतिः ॥
1
यशस्-करो-यशस्कामं कपिं वाणैरताडयत् ॥ ६५ ॥
अस्यन्नित्यादि - बाणानरुष्करान् व्रणजनकान् । '२९३५ | दिवा-विभा||३||२१|' इत्यादिना टः । अस्यन् क्षिप्यन् । ज्योतिष्करसमद्युतिः ज्योतिष्करणशीलः आदित्यः । '२९३४ । कृञो हेतु । ३।२।२०|' इत्यादिना टः । तेन तुल्य इत्यर्थः । पूर्ववत् त्वम् | यशस्करो यशोजननशीलः । इन्द्रजित् यशस्कामं यशसि कामो ऽस्येति तं कपिं वाणैरवाकिरत् अताडयत् । ' १६० । अतः कृकमि - |८| ३ | ४६ |' इत्यादिनानव्यय विसर्जनीयस्य सत्वम् ॥
७३९ - चकारा ऽधस्-पदं ना ऽसौ चरन् वियति मारुतिः ॥ मर्मा-विद्भिस् तमस्-काण्डैर् विध्यमानोऽप्यनेकधा ६६ सत्वाधिकारः ।
चकारेत्यादि - असौ मारुतिर्वियति चरत् अधस्पदं पृथिव्यां पदं न चकार । अधस्पदमिति मयूरव्यंसकादित्वात्सः '१४४ | कस्कादिषु च |८|३ | ४८ |' इति सत्वम् । मर्माणि विध्यन्तीति क्विप् । '१९३७ । नहि वृति - | ६ | ३ | ११६॥' इत्यादिना पूर्वपदस्य दीर्घत्वम् ॥ इति सत्वाधिकारः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com