________________
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमों' नाम नवमः सर्गः- २४३ वानर इत्यादि-वानरः कुलशैलाभः संग्रामे स्थिरत्वात् । आयुधं शीकर• मिव नैरन्तर्येण पतनात् । प्रसह्याभिभूय । १४२॥ कुप्वोः ४कxपौ च ।।३।३॥' इति जिह्वामूलीयोपध्मानीयौ । रक्षस्पाशान् कुत्सितराक्षसान् । '१९९३॥ याप्ये पाशप् ।५।३।४७।' स्वार्थिका अपि प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते । यशस्काम्यत् आत्मनो यश इच्छन् । अत्र तकारे परतो १४०। नश्छव्यप्रशान् । ८३३७॥' इति रुत्वं विसर्जनीयसकारौ च पूर्वस्थानुनासिकः । तमस्कल्पान् ईषद. समाप्ततमसः । कुप्वोरपवादः । १५२। सो ऽपदादौ ।।३।३०।' सकारः । तत्र 'पाश-कल्प-क-काम्येषु' इति परिगणनम् । अदुद्रुवत् ढौकते स । '२३१२॥ णि-श्रि-३।१।४।' इत्यादिना चङ् ॥ ७३३-धनुष्-पाश-भृतः संख्ये ज्योतिष-कल्पोरु-केशरः ॥
दुधाव निर् नमस्-कारान् राक्षसेन्द्र-पुरस्-कृतान्. ६० धनुरित्यादि-धनुष्पाशभृतः कुत्सितधनुर्धरान् । राक्षसान् ज्योतिष्कल्पोरुकेशरः अग्नितुल्यबृहत्सटो वानरः । १५३॥ इणः षः ।।३।३९।' इति पाशादिध्वेव विसर्जनीयस्य षत्वम् । दुधाव कम्पितवान् । यसानिनमस्कारान् अप्र. णामान् । राक्षसेन्द्रेणेन्द्रजिता पुरस्कृतान् अग्रतः स्थापितान् । '१५४॥ नमस्. पुरसोर्गत्योः ।।३।४।' इति विसर्जनीयस्य सकारः । इण उत्तरस्य तु विसर्जनी. यस्य स एवाधिक्रियते । तत्र नमःशब्दस्य साक्षात्प्रभृतिषु पाठात् । पुरःशब्दस्य '७६८। पुरो ऽव्ययम् ।।४।६७।' इति गतिसंज्ञा ॥ ७३४-स्वामिनो निष्-क्रयं गन्तुमाविष्-कृत-बलः कपिः ॥
रराज समरे शत्रून घ्नन् दुष्-कृत-बहिष्-कृतः॥६१॥ खामिन इत्यादि-स्वामिनः सुग्रीवस्य निष्क्रयमानुण्यं गन्तुं शत्रून् मन विनाशयन् कपिः समरे रराज । आविष्कृतबलः प्रकटितसामर्थ्यः। दुष्कृतबहि. कृतः । दुष्कृतं पापं बहिष्कृतमनेनेति । ९००। वाहिताब्यादिषु ।।२।३। द्रष्टव्यम् । सर्वत्र १५५। इदुदुपधस्य च-८॥४॥' इत्यनेनाप्रत्ययविसर्जनीयस्य षत्वम् ॥ ७३५-चतुष्-काष्ठं क्षिपन् वृक्षान् तिरस्-कुर्वन्नरीन् रणे ॥
तिरस्-कृत-दिगाभोगो ददृशे बहुधा भ्रमन्. ॥६२॥ चतुरित्यादि-चतस्रः काष्ठा दिशो यस्मिन् क्षेपण इति क्रियाविशेषणम् । पूर्ववत् षस्वम् । चतसृषु दिक्षु वृक्षान् रणे भ्रमन् एको ऽपि बहुधा ददृशे दृष्टः कपिः । क्षिपनिति तौदादिकः। अरीस्तिरस्कुर्वन् अभिभवन् । तिरस्कृतदिगा. भोगः अपनीतदिग्विस्तरः । १५६॥ तिरसो ऽन्यतरस्याम् ।।३।१२।' इति पके सत्वम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com