________________
२४२ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
रोदितीत्यादि-तस्मिन्निन्द्रजिति भायात्यागच्छति सति पक्षिगणः हतान वृक्षान् कपिनाशितान् शुचा शोकेन मुक्तकण्ठं सशब्दं नामग्राहं रोदिति सेव रुदितवानिव । नामग्रहणपूर्वया रोदनक्रियया व्याप्यमानत्वात् वृक्षणां कर्मसं. ज्ञा । २४७४। रुदादिभ्यः-७।२१७६।' इतीट् । बन्धून बन्धोरिव यथा बन्धो. रागमने कश्चित् बन्धून रोदिति ॥ ७२९-आश्वसीदिव चा ऽऽयाति तद् वेग-पवनाऽऽहतम् ॥
विचित्र-स्तबकोद्भासि वनं लुलित-पल्लवम् ॥ ५६ ॥ आश्वसीदित्यादि-तस्मिन्नायाति वनं तद्वेगपवनाहतं सत् भाश्वसीदिव संजीवितमिव । लङि रूपम् । यतो विचित्रस्तबकोद्भासि लुलितपल्लवं च जात. म् । पूर्ववदिद ॥ ७३०-'न प्राणिषि दुराचार!, मायानामाशिषे न च. ॥ नैडिपे यदि काकुत्स्थं तमंचे वानरो वचः ॥ ५७ ॥
इतीडधिकारः। नेत्यादि-वानरस्तमागच्छन्तमिदं वचनमूचे । हे दुराचार ! न प्राणिषि न जीवसि । ११४४। अन च' इत्यस्य रूपम् । पूर्ववदिद । २४७८। अनितेः ।।४। १९।' इति णत्वम् । नच मायानामीशिषे नेशिता भवसि । २४३९। ईशः से ७।२।७७।' इति इद । ६१३। अधीगर्थ-२३१५२।' इति कर्मणि षष्ठी । यदि काकुत्स्थं नेडिषे न स्तौषि । २४४०। ईडजनोधं च ७।२७८॥ इति चकारात् सेचेतीद ॥
॥ इतीडधिकारः ॥ इदानी १३८॥ विसर्जनीयस्य सः ।।३।३।' इत्यधिकृत्याह७३१-स-सैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रजित् ॥
शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः॥ ५८॥ ससैन्य इत्यादि-इन्द्रजित् ससैन्यः सबलः तं वानरं सर्वतः शरैः क्षुरप्रैः भल्लैः छादयन् मुहुः क्षणं मायाभिः शतशो ऽनेकधा संख्ये प्रावर्तिष्ट प्रवृत्तः। लुङि रूपम् । तत्र ससैन्यश्छादयन् इति । १३८॥ विसर्जनीयस्य सः ।।३।३४।' इति सत्वं छकारे परे श्रुत्वम् । शरैः क्षुरप्रैरिति सत्वापवादः । शर्परे खरि विसर्जनीयस्य विसर्जनीयः विसर्जनीयस्य विकारनिवृत्यर्थः । मायाभिः शतशः सर्वतः इति १५१॥ वा शरि ।।३।३६।' इति विकल्पः विसर्जनीयः सकारो वा ॥ ७३२-वानरः कुल-शैलाऽऽभः
प्रसह्या ऽऽयुध-शीकरम् ॥ रक्षस्-पाशान् यशस्-काम्यंस्
तमस्-कल्पानंदुद्रुवत् ॥ ५९॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com