________________
तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः - २४१
* २३७७। यम- रम - | ७|२|७३ |' इत्यादिना सगिटी । '२७४२। समुदाभ्यो यमः - 1१|३|७५|' इति तङ् न भवति तत्राकर्मकादिति वर्तते । यत एवं तस्मादश-ङ्कितस्तूर्णं व्रज ॥
७२४ - अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन् ॥
अवाप्य चाऽऽशिषस् तस्मादायासीत् प्रीतिमुत्तमाम् ॥
अनंसी दित्यादि - एवमुक्त इन्द्रजित् मन्दिरात् व्रजन् गमिष्यन् । '२७८९| वर्तमानसामीप्ये वर्तमानवत् | ३ | ३|१३१।' इति लट् । तस्य पितुश्चरणावनंसीद् नतवान् । तस्माद्रावणादाशिषमवाप्योत्तमां प्रीतिमायासीत् । पूर्ववत्सगिटौ ॥ ७२५ गते तस्मिन्नु॑पारंसीत् संरम्भाद् रक्षसां पतिः ॥
इन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्. ५२
गत इत्यादि-गते तस्मिन् रक्षसां पतिः रावणः संरम्भात् क्रोधादुपारंसीत् निवृत्तवान् । पूर्ववत्सगिटौ । रमेः '२७५०। उपाच्च ||३|८४|' इति तिप् । स इन्द्रजित् वानरं जितं मन्वानो ऽवगच्छन् । यत्ते विक्रमाभिज्ञः । अगादिति वक्ष्यमाणेन संबन्धः ॥
युग्मम् ५३-५४
७२६ - संसिस्मयिषमाणो ऽगान् मायां व्यज्ञ्जिजिषुर् द्विषः ॥ जगत् पिपविषुर् वायुः कल्पान्त इव दुर्धरः ॥ ५३॥ संसिस्मयिषमाण इत्यादि - संसिस्मयिषमाणः उपासितुमिच्छन् द्विषः शत्रून् । भगात् गतवान् । '२७३४ | पूर्ववत्सनः | १|३|६२|' इति तङ् । मायां व्यञ्जिजिषुः व्यक्ती कर्तुमिच्छुः । ' २६२६ । स्मि-पू-रञ्जवशां सनि ।७।२|७४' इतीट् । तत्राञ्जेः ' २४४६ । न न्द्राः | ६|१|३ | ' इति नकारो न द्विरुच्यते । कल्पान्ते युगान्ते वायुरिव दुर्धरः जगत् पिपविषुः पवितुमुत्क्षेप्तुमिच्छुः ॥ ७२७ - लोकार्ना शिशिषोस् तुल्यः कृतान्तस्य विपर्यये ॥
वने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः ॥ ५४ ॥ लोकानित्यादि - विपर्यये विनाशकाले लोकानाशिशिषोः भक्षयितुमिच्छो: कृतान्तस्य तुल्यो ऽगादिति पूर्वेण संबन्धः । पूर्ववदिद । वने वृक्षांश्चिकरिषोः विक्षेप्तुमिच्छोः । कपेर्बलं सामर्थ्यं जिगरिषुः अपनेतुमिच्छुः । कृम्रो हगन्तत्वात् ' २६१० । सनि ग्रह - गुहोश्च | ७|२|१२|' इति प्रतिषेधे प्राप्ते (२६२५ । इट् सनि वा | ७|२|४२ ।' इति विकल्पे । ' २६११। किरश्च पञ्चभ्यः | ७|२|७५ ।' इतीट् । किरतेरिटो दीर्घत्वं नेच्छन्तीति न दीर्घः ॥
७२८ - रोदिति स्मैव चाऽऽयाति तस्मिन् पक्षि-गणः शुचा ॥
मुक्त कण्ठं हतान् वृक्षान् बन्धून् बन्धोरिवा ऽऽगमे ५५
भ० का० २१
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com