________________
२४० भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थो वर्गः, ७२०-ययाथ त्वं द्विषामन्तं, भूयो यातासि चा ऽसकृत् ॥
शशक्थ जेतुं त्वं देवान् , मायाः सस्मर्थ संयति. ४७ ययाथेत्यादि-न केवलं ययाथ, भूयः पुनरपि यातासि यास्यसि । यातेः क्रादिनियमात् प्राप्तस्येटः । '२२९४॥ अचस्तास्वत्थल्यनिटो नित्यम् ।७।२।६।' इति प्रतिषेधः । तस्य हि तासौ नित्यमनिटत्वम् । 'अजन्ता धातवो ऽनुदात्ताः' इति वचनात् । देवान् जेतुं त्वमसकृत् बहुधा शशक्थ शक्तो ऽसि । '२२९५। उपदेशे ऽस्वतः ।।२।६२।' इति थलीप्रतिषेधः। शकेस्तासौ नित्यानिट्त्वम् । शकिस्तु कान्त इति वचनात् । मायाश्च कूटयुद्धानि । संयति युद्धे । समर्थ ज्ञातवानसि । '२२९६। ऋतो भारद्वाजस्य ।७।२।६३॥' इतीदप्रतिषेधः ॥ ७२१-त्वं ससर्जिथ शस्त्राणि, दद्रष्ठा ऽरीश् च दुःसहान् , ॥
शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि. ॥४८॥ त्वमित्यादि-शस्त्राणि त्वं ससर्जिथ क्षिप्तवानसि । अरींश्च दुःसहान् युध्यतः दद्रष्ट दृष्टवानसि न पलायितो ऽसि । '२४०४॥ विभाषा सृजि-दृशोः ७१२१६५।' इति थलि विभाषेट् । अनिट्पक्षे '२४०५। सृजि-दृशोझल्यमकिति ।६।१॥५०॥' इति षत्वष्टुत्वे । महतामपि मध्ये त्वमेव शस्त्राणि परकीयानि शस्वैः स्वैरादिथ जग्धवानसि । '२३८४) इडत्यतिव्ययतीनाम् ।।२।१६।' इत्यादेरिद ॥ ७२२–स त्वं हनिष्यन् दुर्बुद्धिं
कपिं व्रज ममा ऽऽज्ञया, ॥ मा ना ऽञ्जी राक्षसीर मायाः,
प्रस्तावीर् मा न विक्रमम् ॥४९॥ स त्वमित्यादि-स त्वमेवंविधः कपि दुर्बुद्धिं चपलत्वाद्धनिष्यन् हनिष्या. मिति मदाज्ञया व्रज । '२३६६। ऋद्धनोः स्ये ।७।२७०।' इतीद । वस्वेकाजिति सूत्रत्रयं नोदाहृतम् । वस्वादेशश्च छन्दोविषयत्वात् । राक्षसीर्माया मा नानीः मा न व्यक्तीकुरु । अपि तु व्यक्तीकुर्वित्यर्थः । '२५४६। अझेः सिचि ।७।२।७१॥' इतीद । विक्रमं न मा प्रस्तावीः मा न प्रारभत्र । '२३८५। स्तु-सु-धूनभ्यः ७२।७२।' इतीद ॥ ७२३-मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे, ॥
वानरं मा न संयंसीर, ब्रज तूर्णमशङ्कितः. ॥५०॥' मा नेत्यादि-रणे महास्त्राणि मा न सावीः मा न प्रसुहि मा न मुञ्चेत्यर्थः । १००७। षु प्रसवैश्वर्ययोः' इत्यस्य रूपम् । भरीश्च मा न धावीः मा न कम्पय भपि तु भीषयस्वेत्यर्थः । पूर्ववदिद । वानरं मा न संयंसीः मा न वधीः ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com