________________
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २३९ ७१५-दमित्वाऽप्यरि-संघातानश्रान्त्वा कपि-केशरी ॥
वनं चचार कर्तिष्यन् नयन्निव निरङ्कशः ॥ ४२ ॥ दमित्वेत्यादि-कपिकेशरी हनूमान् अरिसंघातान् दभिस्वा उपशमं नी. वा । अश्रानवा अपरिश्रान्तो भूत्वा वनं चचार । ३३२८। इदितो वा ७।२।५६।' इति विकल्पेनेट् । निरङ्कुशः निरवग्रहः । कतिष्यन् छेत्स्य न् । नय॑न्निव नर्तुकास इव । '२५०६। से ऽसिचि-१२।५।' इत्यादिना विभाषेद ॥ ७१६-पारं जिगमिषन् सो ऽथ पुनरावर्त्यतां द्विषाम् ॥
मत्त-द्विरद-वद् रेमे वने लङ्का-निवासिनाम् ॥४३ ॥ पारमित्यादि-अथ स कपिढेिषां पार जिगमिषन् गन्तुमिच्छन् । २४०१॥ गमेरिट परस्मैपदेषु ।७।२।५।' पुनरवस्य॑तां प्रतीपीभविष्यताम् । '२३४८। न वृधः-७।२।५९।' इतीदप्रतिषेधः। '२३४७। वृधः स्य-सनोः ।।३।१२।' इति परस्मैपदम् । लङ्कानिवासिनां वने मत्तद्विरद इव रेमे क्रीडितवान् । ७१७-'यद्यकल्प्स्यदभिप्रायो योद्धं रक्षः-पतेः स्वयम्, ॥
तमप्यकर्त्यमद्या ऽहं' वदन्नित्यचरत् कपिः ॥४४॥ यदीत्यादि-रक्षःपतेः रावणस्य स्वयं योद्धं यद्यभिप्रायोऽकल्प्स्यत् समपत्स्यत् । '२३५२१ तासि च क्लपः ।७।२।६०।' इति चकारात् स्यकारे च नेट् । तदा तमप्यहमकस्य॑ उत्सारयामि । अहमद्येति एवं वदन् कपिर्वनमचरत् । '२५०६। से सिचि-७।२।५७।' इत्यादिना विभाषेट् । अकल्पस्यदकर्त्यमिति च '२२२९। लिनिमित्ते-३।३।१३९।' इती लङ् । हेतुहेतुमद्भावश्च लिडो निमित्तम् ॥ ७१८-'हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः, ॥
तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति. ४५' हत इत्यादि-तस्मिन् रक्षःपतौ हते प्रियं श्रुत्वा प्रभुः रामः परां प्रीति कल्ला जनयिता । अत्रान्तर्भावितो ण्यर्थः । धातोरकर्मकत्वात् । सीतायाश्चाधव चेतसि तोषः परो महान् कल्प्स्यते संपत्स्यते । '२३५२। तासि च क्लुपः ।७।२।. ६०।' इतीदप्रतिषेधः । '२३५१। लुटि च क्लुपः ।१।३।९३।' इति दरस्मैपदम् ॥
७१९-आहूय रावणो ऽवोचदथैन्द्रजितमन्तिकात् ॥
'वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन् ॥ ४६ ॥ आहूयेत्यादि-अथ रावणः इन्द्रजितमाहूय अन्तिकमवोचत् । किम. वोचदित्याह-वने मत्त इव । यथा गजेन्द्रो मत्तः क्रुद्धो वने पर्यटन द्विषामन्तं गतवान् तथा स्वं प्रधनेषु संग्रामेष्वटन् । द्विषामन्तं ययाथेति वक्ष्यमाणश्लोकेनान्वयः॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com