________________
२३८ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण - रूपे चतुर्थो वर्गः, ७१०-स्वां जिज्ञापयिषू शक्तिं बुभूषू नु जगन्ति किम् ॥ शस्त्रैरित्येकृषातां तौ पश्यतां बुद्धिमाहवे. ॥ ३७ ॥
स्वामित्यादि - तौ कपिराक्षसौ किं स्वां शक्तिं जिज्ञापयिषू बोधयितुमिच्छू इव बुभूषू त्रिजगन्ति किं नु त्रैलोक्यं शस्त्रेण भर्तु पूरयितुमिच्छू इत्येवं बुद्धिमाह पश्यतां प्रेक्षकाणां अकृषातां कृतवन्तौ । जिज्ञापयिषू बुभूर्षु इति विभाषेट् । तत्र ‘९६४। भृञ् भरणे' इति भौवादिकस्य ग्रहणम् । ' २६१८० सनीवन्तर्ध-।७।२।४९।' इति सूत्रे भरेति शपा निर्देशात् ॥
"
७११ - मायाभिः सुचिरं क्लिष्टा राक्षसो ऽक्लिशित क्रियम् संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः ॥ ३८ ॥ मायामिरित्यादि - राक्षसो मायाभिः सुचिरं क्लिष्ट्वा क्लेशं कृत्वा वानरं अक्लिशितक्रियमनमिभूतव्यापारं संप्राप्य परिवाहतो भूमौ पपात । ३०४९ | क्लिशः क्त्वा-निष्ठयोः | ७|२| ३५०|' इति विभाषेट् ॥
युग्मम् ३९-४०
७१२ - पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयो- निधौ ॥
वभञ्जाsध्युषितं भूयः क्षुधित्वा पत्रिभिर् वनम् ॥ ३९ ॥
पवित्र इत्यादि - कपिरपि पयोनिधौ पूत्वा स्नात्वा अनुगुणैरनुकूलैः शीतैवतैः पवितः पवित्रीकृतः । ' ३०५० । पूङच | ७ |२| ५१ | ' इति विभाषेट् । भूयः पुनर्वनं बभञ्ज । कीदृशम् । पत्रिभिः पक्षिमिः क्षुधितैर्भूत्वा । अध्युषितं कृतनिवासम् | '३०४६। वसति क्षुधोः । ७।२।५२ ॥ इतीट् ॥ ७१३ - उच्चैरञ्चित - लाङ्गूलः शिरोऽञ्चित्वैव संवहन् ॥
दधद् विलुभितं वातैः केशरं वह्नि - पिङ्गलम् ॥४०॥
उच्चैरित्यादि - उच्चैरूर्ध्वं अञ्चितं पूजितं लाङ्गूलं पुच्छं यस्य । शोभनविन्यासेन स्थितत्वात् । शिरो ऽञ्चित्वेव संवहन् अनम्रत्वात् पूजयित्वेव शिरो बिभ्राणः । ‘३०४७। अञ्चेः पूजायाम् | ७|२|५३ |' इति विभाषेट् । वह्निपिङ्गलं च केशरं सटां दधत् बिभ्रत् । वातैर्विलुमितं आकुलितम् । ' ३०४८। लुभो विमोह | ७|२५४|' इतीट् । विमोहनमा कुलीकरणम् ॥
I
७१४ - जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः, ॥
व्रश्चित्वा विवशानन्यान् बलेना ऽपातयत् तरून्. ४१
जरित्वेत्यादि - तस्य कपेर्जवेन वेगेन अन्ये शाखिनः जरित्वेव जीर्णा इव भूत्वा निपेतुः । अन्यांतरून् बलेन त्रश्चित्वा छित्वा । विवशान् स्त्रस्तपल्लवानपातयत् पातितवान् । ‘३३२७| चश्वोः क्वि । ७/२/५५॥ इतीट् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com