________________
२३६ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थो वर्गः, नोत्तमे संग्रामवरे । एवमुक्तः सन् स मायानां सोता जनकः कपेद्युति तेजो विध. वितुमपनेतुमगात् गतः । सोता धवितुमिति '२२७९। स्वरति-७।२।४४।' इत्यादिसूत्रेण विभाषेट् ॥ ७०२-विगाढा रं वनस्या ऽसौ शत्रूणां गाहिता कपिः ॥
अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्. ॥२९॥ विगाढारमित्यादि-असौ कपिः वनस्य विगाढा अवलोडयिता । अरं शीघ्रम् । शत्रूणां गाहिता विनाशयिता । कर्मणि षष्ठी । ऊदित्त्वाद्विभाषेट २२. ७९। स्वरति-७।२।४४।' इत्यादिना अक्षं रधितुं हिंसितुमारेभे प्रवृत्तः । लङ्कानिवासिनां रक्षसां रद्धा हिंसिता । '२५१५। रधादिभ्यश्च ।७।२।४५।' इति विभाषेद ॥ ७०३-निष्कोषितव्यान् निष्कोष्टुं
प्राणान् दशमुखाऽऽत्मजात् ॥ आदाय परिघं तस्थौ
वनान् निष्कुषित-द्रुमः ॥ ३०॥ निष्कोषितव्यानित्यादि-दशमुखात्मजादक्षात् । प्राणानिष्कोषितव्यान् अपनेतव्यान् अपनयाान् निष्कोष्टुं अपनेष्यामीति परिघमादाय तस्थौ । '२५. ६०। निरः कुषः ।७।२।४६।' इति विभाषेट् । निष्कुषितद्रुमः वनादपनीतवृक्षः । '३०४५। इण् निष्ठायाम् ।७।२।४७।' इतीद ॥ ७०४-एष्टारमेषिता संख्ये सोढारं सहिता भृशम् ॥
रेष्टारं रेषितं व्यास्यद् रोष्टा ऽक्षः शस्त्र-संहतीः॥३१॥ एष्टारमित्यादि-कपि युद्धस्यैष्टारं एपिता एषणशीलोऽक्षः । ताच्छील्ये तृन् । '६२७। न लोक-२।३।६९।' इति षष्ठीप्रतिषेधः । सोढारं प्रहरणस्य सहितारं सहिता भृशं सहनशीलः । रेष्टारं हिंसकं रेषितुं हिंसितुम् । रोष्टा रोषणशीलः शस्त्रसंहतीप्स्यत् क्षिप्तवान् । लङि रूपम् । सर्वत्र '२३४० । तीष-सह -19॥२॥४८॥' इत्यादिना वेद ॥ ७०५-शस्त्रैर् दिदेविषु संख्ये दुषुः परिघं कपिः॥
अदिधिषुर् यशः कीर्तिमीत्सुं वृक्षरताडयत्. ॥ ३२ ॥ शस्त्ररित्यादि-कपिः अर्दिधिषुः यशो वर्धितुमिच्छुः । परिघं दुषुः । परिषेण क्रीडितुमिच्छुः । अक्षं वृक्षरताडयत् हतवान् । कीदृशम् । शस्त्रैर्दिदेविषु क्रीडितुमिच्छम् । कीर्तिमीस वर्धितुमिच्छम् । दिवेरिवन्तस्य १३२॥ ऋधु वृद्धौ' इत्यस्य च '२६१८। सनीवन्तर्ध-७।२।४९।' इत्यादिना विभाषितेद । तत्र दिवेरिडभावपक्षे '२५७ ॥ छोः शूर-६०१९।' ऋधेः '२६१९। आपज्ञप्यधा.
मीत् ७।४।५५।' इतीत्वं अभ्यासलोपश्च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
शील: शशि सहनशीलः । इति षष्टीप्रतिषेधः । Himsक्षः । ताच्छील्ये