________________
तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः - २३५
प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः ॥ २५ ॥
वरिषीष्टेत्यादि - ये कल्पशाखिनः कल्पवृक्षाः स्वर्गादादायारोपितास्तानुमूल्य यथास्थानं क्षिप्यन् मैथिल्याः शिवं कल्याणं वरिषीष्ट प्रार्थितवान् । मैथिल्या भद्रमस्त्वित्याशंसावचने लिङ्ग । '२५२९| न लिङि | ७|२|३९|' इति दीर्घप्रतिषेधः । अन्ये च वृक्षास्तेन समन्ततः क्षिप्ताः सन्तः क्षोणीं पृथ्वीं प्रावारिषुरिवाच्छादितवन्त इव । तेषामनाच्छादितत्वादिवार्थः । ' २२९७ सिचि वृद्धिः परस्मैपदेषु |७|२|१|' इति वृद्धिः ॥ ६९९ - संवुर्षुः स्वमकूर्माज्ञां विवरिषुर् द्रुतम् ॥ अवरिष्टक्षम क्षम्यं कपिं हन्तुं दशाननः ॥ २६ ॥
1
समित्यादि - रामदूतेन कपिना कर्मेदृशं कृतमिति स्वमाकूतमभिप्रायं संवुवूर्षुः संवरीतुमिच्छुः । दशाननो द्रुतमाज्ञां विवरिषुः प्रकटितुमिच्छुः । अक्षं स्वसुतमवरिष्ट प्रार्थितवान् । कर्त्रभिप्राये तङ् । किमर्थं कपिं हन्तुं हनिष्यामीति । अक्षम्यं क्षन्तुमशक्यम् । '२८४४ | पोरदुपधात् |३|१| १८ |' इति यत् । संबुवर्षुः विवरिपुरिति उगन्तत्वात् । २६१० सनि ग्रह- गुहोश्च ।७।२।१२' इति चकारेप्रतिषेधे प्राप्ते (२६२५॥ इट् सनि वा | ७ |२| ४१ |' इति विभाषेट् । तत्रानिद्रपक्षे * २६१२ | इको झल | १|२|९| ' इति किच्चे '२४९४ | उदोष्ठयपूर्वस्य | ७|१|१०२ ॥ ' इत्युत्वपक्षे गुण एव ॥
७०० - ऊचे - 'संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम् ॥
3
ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु सम्मुखम् ॥२७॥
ऊच इत्यादि - किमित्याह एवं गच्छ शत्रोः पराक्रमं संवरिषीष्ठाः संछादय । आशिषि '२५२८ । लिङ् - सिचोरात्मनेपदेषु | ७|२|४२|' इति वृजो विभाषेट् । ‘२३६८। उश्च । १।२।१२।' इतीट्पक्षे न कित्त्वम् । ध्वृषीष्ठाः युधि मायाभिः कर्तृभूताभिः स्वं कुटिलीकृषीष्टाः । '१००५॥ ध्वृ हूर्च्छने', '२२०| हुच्छ कौटिल्ये ।' तस्य चोदात्तत्वात् आशिषि कर्मणि लिङ् । '२५२६ । ऋतश्च संयोगादेः-१७१२४३।' इति विभाषेट् । अनिस्पक्षे उश्चेति किश्वम् । स्वरिता उपतापयिता । शत्रुसंमुखं शत्रोरप्रतः । भतो द्रुतं संस्वरिशीष्ठा इवेति वक्ष्यमाणेन योज्यम् । ' ९९८ । स्व शब्दोपतापयोः ।' इत्यस्य २२७९ | स्वरति सूति- सूयति - १७।२।४४|' इत्यादिना विभाषेट् लिङ्गसिचोरिति नानुवर्तते ॥
७०१ - द्रुतं संस्वरिषीष्ठास् त्वं निर्भयः प्रधनोत्तमे ॥'
समायानागात् सोता कपेर विधवितुं द्युतिम् ॥२८॥ द्रुतमित्यादि - संस्व रिषीष्टाः उपतापय । निर्भयः सन् । आशिषि लिङ् । ' २६९९ । समो गम्पृच्छ | १|३|२९| ' इत्यात्मनेपदम् । अत्र ऋतश्चेती । मधShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com