________________
तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः - २३३
युग्मम् १८-१९
६९१-तान् दृष्ट्वा ऽतिदृढान् धृष्टान् प्राप्तान् परिवृढाऽऽज्ञया ॥ कष्टं विनर्दतः क्रूरान्
शस्त्र - घुष्ट - करान् कपिः ॥ १८ ॥
तानित्यादि - तान् दृष्ट्वा कपिः आर्दिददिति वक्ष्यमाणेन संबन्धः । किंभूतान् धृष्टान् । धृष्णोतीति धृष्टः । ३०५९ | धृषि - शसी वैयात्ये | ७|२| १९|' इतीदप्रतिषेधः । अतिदृढान् बलवतः । ' ३०६०। दृढः स्थूल - बलयोः | ७||२०|' इति निपातनम् । परिवृढाज्ञया परिवृढस्य प्रभोराज्ञया प्राप्तान् । '३०६१। प्रभौ परिवृढः || २|२१|' इति निपातनम् । कष्टं विनर्दतः कृच्छ्रं ध्वनतः । गम्भीररवं वा । ‘३०६२। कृच्छ्र-गहनयोः कषः | ७|२|२२|' इतीट्प्रतिषेधः । क्रूरान् हिंखान् । शस्त्रघुष्टकरान् | '३०६३ । घुषिरविशब्दने ॥७।२।२३।' इतीट्प्रतिषेधः ॥ ६९२-अ-व्यर्णो गिरिकूटाभानभ्यर्णार्नार्दिदद् द्रुतम् ||
वृत्त-शस्त्रान् महा॒ऽरम्भान॑ दान्तांसू त्रिदशैरपि ॥ १९॥
अव्यर्ण इत्यादि - अव्यर्णो ऽपीडितः । ' ३०६४ अर्देः सं-नि-विभ्यः | ७|२|२४|' इतीट्प्रतिषेधः । गिरिकूटाभान् महागिरिसदृशप्रमाणान् । अभ्यर्णानविदूरान् । '३०६५ | अभेश्चाविदूर्ये | ७ |२| २५ | इतीट्प्रतिषेधः । द्रुतमार्दिदत् हिंसितवान् । अर्देः स्वार्थिकण्यन्तस्य लुङि रूपम् । वृत्तशस्त्रोऽधीतशस्त्रविद्यः । ' ३०० ६६। णेरध्ययने वृत्तम् |७|२| २६ | ' इति इडभावो णिलुक् च निपात्यते । महारभानू अनल्पव्यापारान् । त्रिदशैरप्यदान्तान् अशमितान् । ३०६८। वा दान्त- १७|२|२७|' इत्यादिना इडभावो णिलुक् च निपात्यते ॥ ६९३-दमिता॒ऽरिः प्रशान्तौजा नादाऽऽपूरित - दिङ्मुखः ॥ जघान रुषितो रुष्टांस् त्वरितस् तूर्णमागतान् ॥२०॥
दमितारिरित्यादि - ये तु प्रशान्तौजसः शमितबलाः सन्तो रुष्टाः तूर्णमागताः तान् कपिर्जघान व्यापादितवान् । प्रतापादाम्यन्तोऽरयो दमिता येन दमितारिः । प्रशान्तं शत्रूणामोजो येन स प्रशान्तौजाः । नादापूरितदिङ्मुखः तस्य हृष्टत्वात् । रुषितः क्रुद्धः । त्वरितः ससंभ्रमः । अत्र दमितप्रशमितपूरिताः ण्यन्ताः ‘३०६८। वा दान्त - | ७|२|३७|' इत्यादिना विकल्पितेटः । रुष्टरुषितत्वरिता: '३०६९ । रुष्यमत्वर - |७|२|२८|' इत्यादिना ॥
६९४ - तेषां निहन्यमानानां संघुष्टैः कर्ण - भेदिभिः ॥ अभूद॑भ्यमित-त्रासमा॑स्वान्ताऽशेष - दिग् जगत् ॥२१॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com