________________
२३२ भट्टिकाव्ये - द्वितीयेऽधिकारकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
संजुघुक्षव इत्यादि - तत उत्तरकालं ये हतशेषा निशाचराः ते संजुघुक्षव आयूंषि जीवितानि गोहितुमिच्छवः । गृहेः पूर्ववत्प्रतिषेधः । रावणान्तिकमाजग्मुः आगताः । प्रतिरुरूषवः वक्ष्यमाणमर्थं कथयितुमिच्छत्रः । अत्रापि पूर्ववत्प्रतिषेधः । तत्र चकारेणोगन्तानां सनि समुच्चितत्वात् ॥
६८८ - ' एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत् ॥ वैमुख्यं चक्रुमै' त्युच्चैरूचुर् दश मुखाऽन्तिके ॥ १५ ॥
एकेनेत्यादि - वयं बहवः शूराः साविष्काराः साहंकारा अपि सन्तः एकेनापि कपिना हेतुभूतेन वैमुख्यं चक्रम पराङ्मुखत्वमनुष्ठितवन्तः प्रमत्तवत् मद्यपानमत्ता इव । एवं च चित्तव्याक्षेपादुत्तमपुरुषे लिटि कृते '२२९३ । कृ-सृ-७२।१३।' इत्यादिना इट्प्रतिषेधः नियमित इति । एवं दशमुखान्तिके उच्चैरूचुः ॥ ६८९ - मांसपभोग - संशूनानु॑द्विग्नांस् तान॑वेत्य॑ सः ॥
उद्वृत्त-नयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत् ॥ १६ ॥ मांसेत्यादि - स दशमुखस्तानुद्विमान् भीतानवेत्य ज्ञात्वा स्वानात्मीयान् मन्त्रिणो व्यसर्जयत् प्राहिणोत् । कीदृशांस्तान् । मांसोपभोगसंशूनान् मांसोपभोन स्थूलवर्ष्मणः । उभयत्रापि । ३०३९ । वीदितो निष्ठायाम् ॥७।२।१४ ' इतीप्रतिषेधः । तत्र श्वयतेर्यजादित्वात् संप्रसारणं ' २५५९ | हलः | ६ |४ |२| ' इति संप्रसारणस्य दीर्घः । द्वयोरप्यो दित्वा निष्ठानत्वम् । उद्वृत्तनयनो रोषात् निष्कान्ततारकः । ‘३०२५। यस्य विभाषा | ७ |२| १५ |' इतीट्प्रतिषेधः वृतेरुदित्त्वात् । मित्रान् स्निग्धान् मन्त्रिणः । ' २०३६ | ओदितश्च | ७|२| १६ | ' इतीट्प्रतिषेधः । '३०१६। रदाभ्याम् - १८२४२|' इति निष्ठानत्वम् ॥
६९० - प्रमेदिताः स पुत्रास् ते सु-स्वान्ता बाढ - विक्रमाः ॥ अ- लिष्ट - नादा निरगुः फाण्टचित्रास्त्र - पाणयः ॥ १७ ॥
·
·
प्रमेदिता इत्यादि -- ते मन्त्रिणः सपुत्राः पुत्रैः सह निरगुः निर्गताः । '२४५८| इणो गा लुङि | २|४|४५ | प्रमेदिताः खिग्धीभवितुमारब्धाः । आदिकर्मणि निष्ठा । ततो '३०५४। विभाषा भावादिकर्मणोः' इति प्रतिषेधः । इट्पक्षे (३०५२ । निष्ठा शीङ् -।१।२।१९ |' इत्यादिना कित्त्वप्रतिषेधात् गुणः । सुस्वान्ताः स्वामिनि कल्याणमनसः । बाढविक्रमाः भृशपराक्रमाः अम्लिष्टनादाः विस्पष्टवाचः मन्त्रिणां वाग्मित्वात् । फाण्ट चित्रास्त्रपाणयः यदनृतमपिष्टं कषायमुदकसंपर्कमात्राद्विभक्तरसं ईषदुष्णं तदल्पप्रयाससाध्यत्वात् अनायाससाध्यं फाण्टमित्युच्यते तेन चित्राणि रञ्जितानि अस्त्राणि पाणी येषामिति । स्वान्तादयः '३०५८ | क्षुब्धस्वान्त - १७/२/१८|' इत्यादिना निपातिताः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com