________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो' नामाष्टमः सर्गः-२१९ ६३९-गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम् ॥
राक्षस्यो, रावण-प्रीत्यै क्रूरं चौचुरलं मुहुः. ॥ ९७ ॥ गत इत्यादि-तस्मिन रावणे गते सति राक्षस्यः समाजग्मुः संभूय गताः। २६९९। समो गम्युच्छि-१।३।२९।' इत्यादिना आत्मनेपदं न भवति । आङा व्यवहितत्वात् । मैथिली प्रति लक्ष्यीकृत्य भयाय सीतायै भयं दातुम् । ५८ ॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।२।३।१४।' इति चतुर्थी । ददातेः क्रियार्थोपपदस्य स्थानिनः प्रयुज्यमानस्य भयं कर्म । क्रिया चात्र समागमः । तत्रोपपदं क्रियार्थमिति क्रूरं च भयानकम् । मुहुः प्रतिक्षणं भलं पर्याप्तमूचुः उक्तवत्यः । रावणप्रीत्यै रावणस्यैवं प्रीतिः स्यादिति । ५८२। तुमर्थाच्च भाववचनात् ।२।३। १५।' इति चतुर्थी । क्रियायां क्रियार्थायामिति तुमुना समानार्थत्वात् । भावव. चनाश्चेत्यनेन विहितस्य क्तिनः क्रिया) उपपदं क्रूराभिधानम् ॥ ६४०-'रावणाय नमस्कुर्याः, स्यात् सीते! स्वस्ति ते ध्रुवम् ॥ . अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्. ॥१८॥
रावणायेत्यादि-हे सीते! रावणाय नमस्कुर्याः रावणं नमस्कुरु । एवं च सति ते तुभ्यं स्वस्ति कल्याणं ध्रुवं स्यात् । युष्मच्छब्दस्य चतुर्थंकवचनान्तस्य तेआदेशः । नमस्कृत्वेति पाठान्तरम् । तत्र नमस्कृत्वा स्थितायै तुभ्यमित्यध्या. हृत्य योज्यम् । अन्यथा ह्यसमानकर्तृकत्वात् क्त्वाप्रत्ययो न घटते । नमस्कृत्येति . पाठान्तरम् । साक्षात्प्रभृतिषु नमःशब्दस्य विकल्पेन गतिसंज्ञा। गत्यभावपक्षे नित्यं गतिसमासाभावे ल्यबादेशः । '१५४॥ नमस्पुरसोर्गत्योः ।३।४।' इति विसर्जनीयस्य सकारादेशश्च न संभवतीति । अन्यथेति यदि न नमस्कुर्याः तदा अलं प्रातराशाय प्रातर्भोजनाय त्वां कुर्याम वयमित्यूचुः । '२२००। नित्यं ङितः ३।१९९।' इति सलोपः । रावणायेत्यादिषु ५८३॥ नमःस्वस्ति-१२।३।१६।' इत्यादिना चतुर्थी ॥ ६४१-तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत् ॥
'आत्मानं हत दुवृत्ताः! स्व-मांसः कुरुताऽशनम्.९९
१-अत्र 'उपपदविभक्तः कारकविभक्तिर् बलीयसी' इति वार्तिकबलात् कर्मणि द्वितीयैवप्राप्ता, परं च तस्याप्यपवादभूतेन ५८१॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।२।३।१४।' इति सूत्रेण चतुर्युव भवति । तेन 'नमस्कुर्मो नृसिंहाय, स्वयंभुवे नमस्कृत्य' इत्यादिवत् 'रावणाय-' इत्यस्य रावणं प्रसादयितुमित्यर्थो युक्त इति ज्ञेयम् । एवं सति 'नमः स्वस्तिइत्यादिना चतुर्थी' इति टीकाकृदुक्तं प्रमादगर्भितम् । केवलं 'नमः स्वस्ति' इत्याकारकशब्दयोग एव तस्या विधानादिति भाति । किंतु 'प्रातराशाय त्वा अलं कुर्याम' इत्यत्र तु अलंशब्दयोगात 'नमः स्वस्ति' इत्यनेनैवेति । अत्र युक्तायुक्तविवेचनं तु विद्वदधीनमित्यलम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com