________________
२१८ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयो वर्गः,
उतिक्रियादो मध्यमाधेयप्रधानमारण युक्त ।२।३।४।' इति
धिकम् ।२।३।९।' इत्यादिना सप्तमी । यश्चैवं स रामस्ते क्षयमधिकर्ता करिष्य. ति । अन्न कर्मण्येव द्वितीया । न ५४८। कर्मप्रवचनीययुक्त-।२।३।।' इति "७७४। विभाषा कृषि ।।४।१२।' इति या संज्ञा तस्या गत्युपसर्गसंज्ञाबाध. नार्थत्वात् । संज्ञापक्षे ३९७४। तिङि चोदात्तवति-८।१७१' इति निघाताभावो द्रष्टव्य इति । एवमुक्त्वा दशाननं मैथिली तूष्णीमासांचके तूष्णीं स्थि. तवती ॥
इति कर्मप्रवचनीयाधिकारः॥ इतः प्रभृति 'अनभिहिते' इत्यधिकृत्य विभक्तिविधानमाह६३६-ततः खङ्गं समुद्यम्य रावणः क्रूर-विग्रहः ॥
वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्. ॥ ९४ ॥ तत इत्यादि-ततः सीतावचनादुत्तरकालं रावणः खड्गं समुद्यम्य उरिक्षप्य । कर्मणि द्वितीया । क्रूरविग्रहः दुष्प्रेक्ष्यत्वात् । वैदेहीमन्तरा क्रुद्धः वैदेह्या वधे कुपितः । ५४५। अन्तराऽन्तरेण युक्त ।।३।४।' इति षष्ट्यपवादावितीया। अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे, आधेयश्चात्र वधः, क्षणमूचे उक्तवान् । उक्तिक्रियया क्षणस्य कालस्य साकल्येन संबन्धात् ५५०। कालावनोः-२।३।५।' इति द्वितीया । विनिश्वसन कोधात् ॥ ६३७-'चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्ति-पराङ्मुखी ॥
न मासे प्रतिपत्तासे मां चेन्, मासि मैथिलि ! ९५' चिरेणेत्यादि-हे मैथिलि ! चिरेणापि कालेनानुगुणमनुकूलं मया प्रो. कापि सती प्रतिपत्तिपराङ्मुखी । उक्तस्यार्थस्यानुष्ठानं प्रतिपत्तिः तस्यां परा. इमुखी इदानीं यदि त्वं मासे निशदिवसलक्षणे मां न प्रतिपत्तासे नाङ्गीकरिज्यसि तदा मर्तासि मरिष्यसि । उभयमपि लुटि रूपम् । तत्र चिरेण प्रोका इति । ५६३। अपवर्गे तृतीया ।।३।६।' विवक्षितार्थप्रकाशनं फलं तस्य प्राप्ती तक्रियापरिसमाप्तिरपवर्ग इति । मां मासे न प्रतिपत्तास इति ६४३। सप्तमीपञ्चम्यौ कारकमध्ये ।२।३।७।' इति सप्तमी । कर्मकोंः कारकयोर्मध्यत्वात् मासस्य ॥ ६३८-प्रायुत राक्षसीर् भीमा मन्दिराय प्रतिव्रजन् ॥
'भयानि दत्त सीतायै सर्वा यूयं कृते मम.॥ ९६ ॥' प्रायक्रेत्यादि-रावणो राक्षसीीमा भयानकाः प्रायुक्त समादिष्टवान् । ल. डि रूपम् । मन्दिराय प्रतिव्रजन् गृहाय प्रतिव्रजन् । ५८५। गत्यर्थकर्मणि१२।३।१२।' इत्यादिना तु चतुर्थी । कर्मप्रवचनीयादिसूत्रचतुष्टयेनोदाहृतं कर्मप्र. वचनीयाधिकार एव दर्शितत्वात् । किमादिशदित्याह-सर्वा यूयं सीतायै भयानि दत्त । लोटि रूपम् । चतुर्थी संप्रदाने । संपूज्यादृत्य प्रकर्षेण दीयत इति
संप्रदानम् । मम कृते मदनुग्रहनिमित्तम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com