________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका-भङ्गो' नामाष्टमः सर्गः-२१७ वति ।।११७१' इति निघाताभावो द्रष्टव्यः । पञ्चमी च 'प्रश्नाख्यानयोः' इत्युपसंख्यानाद्भवति । किमिति हनिष्यतीति चेत्-यतो भवता न सूक्तं प्रशस्तमुकम् । ५५५। सुः पूजायाम् ।११।९४॥' इति कर्मप्रवचनीयत्वम् । ३७८३। गतिरनन्तरः ।।२।४९।' इति स्वराभावः । अत्युग्रमतिरौद्रम् । अतिरामं राम. मधिक्षिप्य । काकुत्स्थमधन्यमिति । ५५६। अतिरतिक्रमणे च ।।१९५।' इति कर्मप्रवचनीयत्वम् । चकारात्पूजायां च तत्र चाप्युक्तमिति प्रयोगः । हे मदोद्धत ! ॥ ६३३-परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः ॥
अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्. ९१ परीत्यादि-रामो विभुः प्रभुः ते परिशेषं नामापि संज्ञामपि न स्थापयि. ध्यति, किमु देहम् । '५५७। अपिः पदार्थ-।१।४।९६॥' इत्यादिना पदार्थे कर्मप्रवचनीयसंज्ञा । पदस्य देहस्याप्रयुज्यमानस्यार्थे अपिशब्दो वर्तते । अपि स्थाणु जयेद्रामो यमाराध्याधिपत्यं प्राप्तवानसि तमपि स्थाणुं महादेवं जेतुं संभाव्यते भवतो ग्रहणं कियत् । यस्त्वेव न भवति । अत्र संभावनायां कर्मप्रवचनीयत्वम् । संभावने लिङ्। उपसर्गबाधनत्वात्संज्ञाया: २२७०१ उपसर्गात्सुनोति-1८।३।६५।' इत्यादिना पत्वं न भवति ॥ ६३४-अपि स्तुह्यपिसेधा ऽस्मांस तथ्यमुक्त नराऽशन!, ॥
अपि सिञ्चेः कृशानौ त्वं दर्प, मय्यपि यो ऽभिकः.९२ अपीत्यादि-हे नराशन ! मया तथ्यमुक्तं यन्नामापि न स्थापयिष्यतीति । अस्मानपि स्तुहि साधूक्तमिति प्रशंस । '२२०१। सेयपिच्च ३३१४८७।' इति अपिति ङित्त्वाद्गुणाभावः । अपिसेध निगृहाण यथेच्छ तथा क्रियाताम् । मया तु सत्यमेवोक्तमिति भावः । अत्रान्ववसर्गे कामचारानुज्ञाने कर्मप्रवचनीयसंज्ञा । किंच कृशानावग्नौ दर्प अपि सिञ्चः क्षरेस्त्वम् । अत्र गर्दायां लिङि रूपम् । यो. ऽयं मय्यपि मद्विषयेऽपि अभिकः कामयिता। १८७४। अनुकाभिका-1५।२।७४।' इत्यादिना निपातितः । उपसर्गसंज्ञाबाधनार्थत्वात् स्तौति-सेधि-सिचां षत्वं न भवति ॥ ६३५-अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम् , ॥'
इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम् ॥१३॥ अधीत्यादि-पराक्रान्तस्य शौर्यस्य राम ईशितेत्यस्मिन्नर्थे अधिरामे पराक्रान्तम् । '३०९० । नपुंसके भावे क्तः ।३।३१११॥' । '६४४। अधिरीश्वरे २४१९७।' इति स्वस्वामिसंबन्धे अधेः कर्मप्रवचनीयसंज्ञा । '६४५। यस्माद
१-३९। व्योमकेशो भवो भीमः स्थाणू रुद्र उमा-पतिः । इति ना० अ० । 'स्थाणुः कीले हरे पुमान्' इति कोशान्तरं च । २-५९। अग्निर्-' इत्यादित आरभ्य '६१ । आश्रयाशो बृहद्-भानुः कृशानुः पावकोऽनलः । इति ना० अ०॥
भ० का. १९
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com