________________
२१६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
मी । उपशब्दस्याधिकद्योतनात् । किमर्थं कनकमृगच्छलेन । वीरौ रामलक्ष्मणौ अपवाह्य अन्यतो नीत्वा । मामिहाहरः लङ्कामानीतवान् ॥
६२९ - 'उप- शूरं न ते वृत्तं कथं रात्रिंचऽधम ! ॥
यत् संप्रत्यलोकेभ्यो लङ्कायां वसतिर् भयात् ॥ ८७ ॥
उपेत्यादि - हे रात्रिचराधम ! कथं ते वृत्तं चरितं नोपशूरं शूरेभ्यो न हीनम् । '५५१ | उपो ऽधिके च | १|४|८७१' इति चकाराद्धीने उपशब्दस्य कर्मप्रवचनीयसंज्ञा । यद्यस्मात् संप्रत्यधुना भयालङ्कायां जलपर्वतदुर्गायां वसतिः । वसेरतिः 'वहि-वस्यर्तिभ्यश्चित्' इत्यौणादिकः । अपलोकेभ्यो लोकान् वर्जयित्वा । '५९६ । अप-परी वर्जने | १|४|८८|' इति कर्मप्रवचनीयसंज्ञायां ' ५९८ । पञ्चम्यपाङ् - परिभिः | २|३|१०|' इति पञ्चमी ॥ ६३० - आराम-दर्शनात् पाप ! विद्योतस्व स्त्रियः प्रति ॥ सद् - वृत्तान॑नु॒ दुर्वृत्तः परस्त्री जात- मन्मथः ॥ ८८ ॥
•
आ रामेत्यादि - हे पाप ! आ रामदर्शनात् रामदर्शनं यावत् । ' ५९७ । आङ् मर्यादावचने | १|४|८९ |' इति पूर्ववत्पञ्चमी । खियः प्रति योषितो लक्ष्यीकृत्य । विद्योतस्व स्थिरो भव । स्त्रिय इति ' ३०२ | वा म्-शसमोः | ६ | ४|८०|' इति इयङ् । '५५२ | लक्षणेत्थंभूत - 1१/५/९० |' इत्यादिना कर्मप्रवचनीयत्वम् । सद्वृत्ताननु दुर्वृत्तः सदाचारिणामुपरि दुर्वृत्त इत्यर्थः । इत्थंभूताख्याने ऽनोः कर्मप्रवचनीयत्वम् । परस्त्रीं जातमन्मथः । अत्र वीप्सायां कर्मप्रवचनीयत्वम् ॥ ६३१ - अभि द्योतिष्यते रामो भवन्तमं - चिरादिह, ॥
उद्गर्ण-बाणः संग्रामे यो नारायणतः प्रति. ॥ ८९ ॥
अभीत्यादि - भवन्तमभि भवन्तं लक्ष्यीकृत्य । '५५५| अभिरभागे | १|४|९१।' इति कर्मप्रवचनीयत्वम् । अचिरादिह लङ्कायां रामो द्योतिष्यते असह्यतेजाः भविष्यति । य उद्द्भूर्णबाणः संग्रामे नारायणतः प्रति तेन तुल्यः । ५९९ । प्रतिः प्रतिनिधि प्रतिदानयोः | १|४|१२|' इति प्रतिनिधौ कर्मप्रवचनीयत्वम् । '६०० । प्रतिनिधि प्रतिदाने च यस्मात् | २|३|११|' इति पञ्चमी । प्रतियोगे पञ्चम्यास्तसिः । मुख्यसदृशः प्रतिनिधिः ॥
६३२ - कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पत्रिभिः ॥
न सूक्तं भवता ऽत्युग्रमतिरामं मदोद्धत ! ॥ ९० ॥
कुत इत्यादि - हे क्रूर ! तेन रामेण उद्गर्णवाणेन पत्रिभिः शरैः निहतः सन कुतो ऽधियास्यसि केन प्रकारेण निःसरिष्यसि । '५५४ | अधि- परी अनर्थ की ' |१|४|१३|' इति अधेः कर्मप्रवचनीयसंज्ञा । धात्वर्थव्यतिरेकार्थस्यानभिधानादनर्थकत्वम् । संज्ञा च गत्युपसर्गसंज्ञाबाधनार्था । तेन '३९७८ । तिङि चोदात्त
१ – '१३१३ । ग्रावाणौ शैल-पाषाणौ पत्रिणी शर-पक्षिणौ ।' इति ना० अ० । Shree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com