________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक-चनिका भङ्गो' नामाष्टमः सर्गः-२१५ ६२५-प्रीतो ऽहं भोजयिष्यामि भवती भुवन-त्रयम्, ॥
किं विलापयसेऽत्यर्थ, पार्श्वे शायय रावणम्. ॥८॥ प्रीत इत्यादि-अहं प्रीतः सन् भुवनत्रयं तत्समुत्थं भोज्यं भोक्तुं योग्यं भवती भोजयिष्यामि । प्रत्यवसानार्थत्वात्कर्मसंज्ञा । प्रत्यवसानमभ्यवहारः। अकमिप्राये २५६४। णिचश्च ।।३।७४।' इत्यात्मनेपदं न भवति । विलपन्तं विविधं भाषमाणं किं विलापयसेऽत्यर्थ नाहं त्वामिच्छामीति बुवाणा । अत्र शब्दकर्मकत्वात् कर्मसंज्ञा । कर्बभिप्राये णिचश्वेत्यात्मनेपदम् । तसादिदं प्रार्थये-पाचे रावणं शायय । अत्राकर्मकत्वात्कर्मसंज्ञा ॥ ६२६-आज्ञां कारय रक्षोभिर् , मा प्रियाण्युपहारय, ॥ कः शक्रेण कृतं नैच्छेदधिमूर्धानमञ्जलिम्. ॥ ८४ ॥
इति कारकाधिकारः॥ आज्ञामित्यादि-रक्षांसि त्वदाज्ञां कुर्वन्त्येव । कारय प्रियाणि च स्वत्संबन्धीनि मामुपहरन्तमुपहारय उत्पादय । ५४१ । होरन्यतरस्याम् ।।४।५।' इति कर्मसंज्ञा । शक्रेण कृतं विरचितं अञ्जलिमधिमूर्धानं अधिगतः प्राप्तो मूर्धा येनेति । को नेच्छेत् ५५९। स्वतन्त्रः-१४५४।' इति कर्तृसंज्ञा । शक्रेण प्रणतोऽहमित्यर्थः । प्रयोज्यकर्ता नोदाहृतोण्यन्तावस्थायामुदाहृतत्वात् ॥ इति कारकाधिकारः॥
इतः प्रभृति कर्मप्रवचनीयमधिकृत्याह६२७-वचनं रक्षसां पत्युरनु क्रुद्धा पति-प्रिया ॥
पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः ॥८५॥ वचनमित्यादि-रक्षसां पत्यू रावणस्य वचनमनु लक्ष्यीकृत्य । '५४७) अनुर्लक्षणे ।१।४।४।' इति कर्मप्रवचनीयसंज्ञायां द्वितीया । क्रुद्धा सती सीता। पतिप्रिया पतिः प्रियो यस्या इति । रावणं प्राब्रवीद्वचो वक्ष्यमाणम् । पापानुवसितं पापेन संयुक्तम् । ५४९॥ तृतीयार्थे । १।४।०५।' इत्यनेन कर्मप्रवचनीयसंज्ञायां द्वितीया । पापमन्ववसित इति । द्वितीयेति योगविभागात् सः सुपसुपेति वा ॥ ६२८-'न भवाननु रामं चेर्दुप शूरेषु वा, ततः ॥
अपवाह्य च्छलादू वीरौ किमर्थ मामिहा ऽहरः॥८६॥ नेत्यादि-यदि भवान्नानुरामं रामान हीन इत्यर्थः । ५५०। हीने ।१।४. ८६।' इत्यनेन कर्मप्रवचनीयसंज्ञा । अनुशब्दश्च स्वहीनार्थद्योतकः । हीनश्चोत्कृष्टापेक्षः । उपशूरेषु वा शूरेभ्यो वा यद्यधिको भवान् । '५५१। उपोऽधिके च ॥१॥४. ४७॥'इति चकाराद्धीने उपशब्दस्य कर्मप्रवचनीयसंज्ञा । यसादधिकमित्यनेन सप्त.
१-८७४। प्रसभं तु बलात्कारो हठो, ऽथ स्खलितं छलम् ।' इति ना० अ० । 'छलं छम: स्खलितयोः' इति हैमश्च । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com