________________
२१४ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयो वर्गः, ६२१-आस्स्व साकं मया सौधे, माऽधिष्ठा निर्-जनं वनम् ॥
मा ऽधिवात्सीर भुवं, शय्यामधिशेष्व स्मरोत्सुका.७९ आस्स्वेत्यादि-मया साकं साधं सौधे धवलगृहे आस्स्व तिष्ठ । आसे. लोटि रूपम् । '६७२। आधारो ऽधिकरणम् ।।४।४५।' इत्यधिकरणसंज्ञायां सप्तमी । मा ऽधिष्ठा निर्जनं वनम् । ५४२॥ अधि-शीङ्-स्थासां कर्म ।१।४।४६।' इत्यधिकरणे कर्मसंज्ञा । लुङि रूपम् । मा ऽधिवात्सीः भुवं भूमौ मा शयिष्ठाः । माङि लुङि रूपम् । '५४४। उपान्वध्यावसः ।।४।४' इति अधिकरणे कर्मसंज्ञा । किंतु । शय्यामधिशेष्व । शीडो लोटि रूपम् । ५४२। अधिशीङ्१४४४६' इति कर्मसंज्ञा । सरोत्सुका कामार्थिनी ॥ ६२२-अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः, ॥
तवाऽप्यध्यावसन्तं मां मा रौत्सीर हृदयं तथा. ॥८॥ अभीत्यादि-यथैव त्वमव्याहता अनिवारिता सती मे मम मनः अमिन्य. विक्षयाः अभिनिविष्टासि । लुङि रूपम् । ३६८३। नेविंशः ॥१॥३।१७।' इति तङ् । '५४३। अभि-नि-विशश्च ।।४।४७।' इत्यधिकरणे मनसः कर्मसंज्ञा । तथा त्वमपि स्वद्धृदयमध्यावसन्तं मां मा रौत्सीः मा निवारय । रुधे ङि रूपम् । ५४४॥ उपान्वध्याङ्-19॥४॥४८॥' इति हृदयस्य कर्मसंज्ञा ॥ ६२३-मा ऽवमंस्था नमस्यन्तम-कार्य-ज्ञे! जगत्-पतिम् , ॥
संदृष्टे मयि काकुत्स्थम-धन्यं कामयेत? का. ॥८॥ मेत्यादि-हे अकार्यक्षे अविशेषज्ञे ! मां जगत्पतिं नमस्यन्तं माऽवमंस्थाः । लुङि रूपम् । '५३५। कर्तुरीप्सिततमम्-१०४९।' इति कर्मसंज्ञा । अवमानक्रियया कर्तृसंबन्धिन्या जगत्पतेराप्तुमिष्टत्वात् । संदृष्टे मयि काकुत्स्थमधन्यं मन्दभाग्यं का कामयेत का इच्छेत् । नैवेत्यर्थः । ५३८॥ तथायुक्तं चानीप्सितम् १॥४॥५०॥' इति कर्मसंज्ञा । येनैव प्रकारेण कर्तुरीप्सिततमं क्रियया युक्तं तेनैवेप्सितादन्यस्य रामस्य प्रयुज्यमानत्वात् ॥ ६२४-यः पयो दोग्धि पाषाणं, स रामाद् भूतिमाप्नुयात्, ॥
रावणं गमय प्रीति बोधयन्तं हिताऽहितम् ॥ ८२।। य इत्यादि-यथा पाषाणात् पयो न संभवति तथा रामादपि विभूतिरिति नैराश्यं दर्शयति । पयसः पूर्वेणैव कर्मसंज्ञा । पाषाणस्य ५३९ । अकथितं च
॥४॥५१॥' इत्यनेन । रावणं गमय प्रीतिं भवत्या सह प्रीति गच्छन्तं गमय प्रीतिम् । स्वयमेव हिताहितं भवतीं बुध्यमानां बोधयन्तम् । ५४७। गति-बुद्धि१४१५२।' इत्यादिमा कर्मसंज्ञा । गति-बुधोरण्यन्तावस्थायां तयोः कर्तृत्वात् ॥ १-४१। विभूतिर् भूतिरैश्वर्यमणिमादिकमष्टधा।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com