________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक वनिका भङ्गो' नामाष्टमः सर्गः - २१३
यै नाकुध्यत् तां प्रति कोपं न कृतवान् । नाप्यसूयत दोषाविष्करणलक्षणामसूर्या न कृतवान् । क्रुध्यतिसूयत्योर्दिवादिकयोरुदात्तेनू ङितोर्लङि प्रयोगे '५७५॥ कुधदुह - |१|४|३७|' इत्यादिना सम्प्रदानम् ॥
६१८ - 'संक्रुध्यसि मृषा किं त्वं दिदृक्षु मां मृगेक्षणे !, 11
ईक्षितव्यं पर- स्त्रीभ्यः स्व-धर्मो रक्षसामयम् ॥ ७६ ॥ संक्रुध्यसीत्यादि - किं त्वं शुभाशुभे दिदृक्षु द्रष्टुमिच्छु मां हे मृगेक्षणे !! संक्रुध्यसि । '५७६। क्रुध दुहोरुपसृष्टयोः - 1१|४|३८|' इति कर्मसंज्ञा । क्रुधेरुपसर्गेण युक्तत्वात् । कुतस्ते परिज्ञानं यत्परस्त्रीषु शुभाशुभं निरूपयसि अन्यत्र दुष्टाशयत्वात् । अथ कथं मृषा संक्रुध्यामीति चेदाह - ईक्षितव्यं परस्त्रीभ्यः का शुभा न शुभेति यदीक्षितव्यमीक्षणीयं तदयं स्वधर्मो रक्षसाम् । '५७७। राधीयोर्यस्य विप्रश्नः || ४ | ३९ |' इति सम्प्रदानसंज्ञा । यतः स्त्रीविषये विविधस्य प्रश्नस्य क्रियमाणत्वात् ॥
६१९ - शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नौत्तमाः, ॥
गृणन्यो ऽनुगृ॒णन्त्य॑न्ये ऽकृता॒ऽर्था, नैव मद् - विधाः ॥
शृण्वद्भ्य इत्यादि - अनेनात्मनः प्रभावं दर्शयति । शृण्वत्र्यः प्रार्थयमा नेभ्यः स्वामिन्निदं क्रियतामिति मध्यमाः प्रभवः प्रतिशृण्वन्ति ओमित्युपगच्छन्ति । हे भीरु ! नोत्तमा मादृशाः । ते हि स्वातन्त्र्यात्स्वयमेव हितं प्रतिपद्यन्त इति भावः । '५७८ । प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता | १|४|४०|' इति सम्प्रदानसंज्ञा । पूर्वस्याः प्रार्थन क्रियायाः प्रार्थयितुः कर्तृस्वात् । अन्ये प्रभवो ऽकृतार्थाः अलब्धलाभाः गृणच्यः अनुग्राह्यस्य भृत्यस्य कस्यचिन्न स्तुतिं कुर्वच्यो मन्त्रिभ्यः अनुगृणन्ति तान् प्रोत्साहयन्ति । अनुगृणीत अनुगृणीतेति ममानुगतो भवतीति नैव मद्विधा अनुगृणन्ति कृतार्थत्वात् । ' १५९५ । गृ शब्दे' इत्यस्य प्रयोगे '५७९ | अनु प्रतिगृणश्च | १|४|११|' इति सम्प्रदानसंज्ञा । गृणातेः स्तुतिक्रिया. पेक्षया कर्तृस्वात् ॥
६२० - इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम्, ॥
संभोगाय परिक्रीतः कर्तास्मि तव ना प्रियम् ॥ ७८ ॥
इच्छेत्यादि - ईदृशं पूजितं भुवनेश्वरं त्रिलोकविजयिनमिच्छ भङ्गीकुरु । आत्मानमुद्दिश्य स्नेहेन प्रेम्णा । ' ५६० | साधकतमं करणम् - 1१1४1४२ ।' इति करणसंज्ञा । दीव्यन्ती क्रीडन्ती विषयान् शब्दादिभिरित्यर्थः । '५६२ । दिवः कर्म च - |१||४४३ |' इति करणसंज्ञापवादात् कर्मसंज्ञा । संभोगाय परिक्रीतः स्वद्विषयभोगेन परिक्रीत इत्यर्थः । ५८० | परिक्रयणे सम्प्रदानम् - 1१1४४४ |' इति सम्प्रदानत्वम् । तव नाप्रियं कर्तास्मि न करिष्यामि ॥
१–‘५६६। विशेषास् त्वङ्गना भीरुः कामिनी वामलोचना ।' इति ना० अ० । 'भीरुर/र्ते त्रिलिङ्गः स्याद् वरयोषिति योषिति ।' इति मेदिनी च ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com