________________
२१२ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, ६१४ - रामादधीत-संदेशो वायोर् जातश् च्युत स्मिताम् ॥ प्रभवन्तीमि॑र्वादित्याद॑पश्यत् कपि- कुञ्जरः. ॥ ७२ ॥
रामादित्यादि - सत्कृत्य अधीतसंदेशो गृहीतसंदेशः कपिकुञ्जरः । ५९२। भाख्यातोपयोगे | १|४|२९| ' इत्यपादानसंज्ञा । रामस्याख्यातृत्वात् । सावधानतया संदेशग्रहणात् नियमपूर्वक विद्यावत् संदेशग्रहणम् । वायोर्जात इति '५९३ । जनि - कर्तुः - 1१|४|३०|' इत्यपादानसंज्ञा । जन्यर्थस्य जन्मनः कर्ता हनुमान् तस्य वायुः प्रकृतिः कारणम् । च्युतस्मितां शोकाक्रान्तत्वात् । प्रभवन्तीमिवादित्यात् । ५९४ । भुवः प्रभवः | १| ४ | ३ || ' इत्यनेन भवत्यर्थस्य सीतायाः कर्तृभूतायाः प्रथमत उपलभ्यमानत्वात् । अतः प्रभव आदित्यः तस्य । स्तेजस्वित्वात् ॥ ६१५ - रोचमानः कु - दृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम् ॥
श्लाघमानः पर- स्त्रीभ्यस् तत्राऽऽगाद् राक्षसाऽधिपः ॥
रोचमान इत्यादि - तत्र तस्यामशोकवनिकायां राक्षसाधिपो रावणः आगात् आगतः । रोचमानः कुदृष्टिभ्यः त्यक्तत्रयीधर्मत्वात् । ये कुदृष्टयः कुबुद्धयः तान् स्वविषये स्पृहावतः कारयन्नित्यर्थः । ' ५७१ । रुच्यर्थानां प्रीयमाणः | १४ | - ३३|' इति सम्प्रदानसंज्ञायां चतुर्थी । रुचेरभिलाषस्य तत्रावस्थानात् । कुदृष्टयः प्रीयमाणाः । रक्षोभ्यः श्रियं विभूतिं प्रत्तवान् । '५६९ | कर्मणा यममिप्रैति|१|४|३२|' इति सम्प्रदानम् । ददातिक्रियया राक्षसानामभिप्रीयमाणत्वात् । श्लाघमानः परस्त्रीभ्यः युष्मद्विषये ऽस्माकं लाघेति परकलत्राणि ज्ञापयितुमेषयन् । ‘५७२। श्लाघ-हुङ् - 1१1४|३४|' इत्यादिना सम्प्रदानत्वम् । श्लाघया बहुमानेन ज्ञापयितुमिष्यमाणत्वात्तासाम् ॥
६१६ - अशप्त निहुवानो ऽसौ सीतायै स्मर - मोहितः, ॥
धारयन्निव चैतस्यै वसूनि प्रत्यपद्यत ॥ ७४ ॥
अशप्तेत्यादि - सीतायै निहुवानः क्रौर्यादिकं न मेऽस्तीति सीतां ज्ञापयितुमेषयन्नित्यर्थः । तस्यै सीतायै अशपत् । शपथं सीतां ज्ञापयितुमैषदित्यर्थः । किमित्येवमाह । स्मरमोहितः । अन्न शपथापहुतिक्रियया सीतामाज्ञापयितुमिव्यमाणत्वात् । पूर्ववत् सम्प्रदानसंज्ञा । किंचास्यै सीतायै स्वामिनी भूतायै नसुनि द्रव्याणि प्रत्यपद्यत भङ्गीकृतवान् । धारयन्निव गृहीतवित्त इव । अत्र ' ५७३। धारेरुत्तमर्णः | १|४|३५|' इति सीतायाः कदाचिदुत्तमर्णया तुल्यत्वात् ॥ ६१७ - तस्यै स्पृहयमाणो ऽसौ बहु प्रियमभाषत ॥
सानुनीतिश च सीतायै ना क्रुध्यन्, नाप्यसूयत. ७५
तस्यामित्यादि - असौ राक्षसाधिपः स्पृहयमाणः सीतामाघुमिच्छन् बहुप्रियमभाषत वक्ष्यमाणम् । ५७४ । स्पृहेरीप्सितः | १| ४ | ३६ | ' इति स्पृहयते:स्वार्थिकण्यन्तस्य प्रयोगे सीताया ईप्स्यमानत्वात् । सानुनीतिश्च सानुनयः सीताShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com