________________
तथा लक्ष्य-रूपे कथानके ‘शोकवनिका भङ्गो' नामाष्टमः सर्गः - २११ ६११ - 'निरवर्त्यन् न चेद् वार्ता सीताया, वितथैव नः ॥ अकल्प्स्यदु॑द्यतिः सर्वा', हनूमानि॑त्य॑चिन्तयत्. ॥ ६९ ॥
इत्यात्मनेपदाधिकारः ।
निरवर्त्स्यन्नित्यादि - चेदिति यद्यर्थे । यदि सीताया वार्ता न निरवर्त्स्यद् निर्वृतिं नायास्यत्, तदा वृथैव निष्फलैव नो ऽस्माकमुद्यतिः सर्वा भयमुद्यमः समुद्रलङ्घनादिकः । अकल्प्स्यत् अभविष्यत् । इत्येवं हनूमानचिन्तयत् । क्रियातिपत्तौ लुङ् । तत्र निरवयैदिति '२३४७ | वृद्भ्यः स्य- सनोः | १| ३ | १२ | ' इति विभाषापरस्मैपदम् । अकहप्स्यदिति '२३५१। लुटि च क्लृपः । १३९३ ॥ इति चकारात् स्य-सनोरपि भवति विभाषापरस्मैपदम् । उद्यतिरिति यमेः '३२७२॥ स्त्रियां ति | ३ | ३ | १४ | ' । ' २४२८ | अनुदात्त - | ६ | ४ | ३७ |' इत्यादिना अनुनासिकलोपः ॥ इत्यात्मनेपदाधिकारः ॥
इतः प्रभृति कारकमधिकृत्याह -
विशेषकम् ७०-७२–
६१२ - वृक्षाद् वृक्षं परिक्रामन् रावणाद् विभ्यतीं भृशम् ॥ शत्रोस्त्राणमं पश्यन्तीमं दृश्यो जनका॒ऽऽत्मजाम् ७०
वृक्षादित्यादि - तां जनकात्मजां सीतां स कपिकुञ्जरो ऽपश्यदिति वक्ष्यमाणेन संबन्धः । वृक्षात् वृक्षं परिक्रामन् गच्छन् । '५८६ । ध्रुवमपाये ऽपादानम् ||४|२४|' इत्यपादानसंज्ञायां पञ्चमी । रावणात् बिभ्यतीं भृशं त्रस्यन्तीं अत्यर्थं शत्रो रावणाद्रक्षामपश्यन्तीं यतो भयं ततः कुतो रक्षेति '५८८ । भीत्रार्थानाम् ||४| २५ | ' इत्यपादानसंज्ञा । अदृश्यः प्रच्छन्नो भूत्वा । '२८५९ / ऋदुपध - |३|१|११०१' इत्यादिना क्यप् ॥
६१३ - तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात् ॥
अन्तर्दधानां रक्षोभ्यो मलिनां ग्लान- मूर्धजाम् ॥ ७१ ॥
तामित्यादि - प्रीतेः रावणसंबन्धिन्याः पराजयमानां विमुखीभवन्तीम् । '५८९ | पराजेरसोढः | १|४|२६|' इत्यपादानत्वम् । असोढो ऽर्थः प्रीतिः । रक्ष्यां दशाननात् रावणविषये स्वयं निवार्यप्रसराम् । ५९० । वारणार्थानामीप्सितः |१|४|२७|' इत्यपादानत्वम् । प्रवृत्तिविघातलक्षणया रक्षणक्रियया आत्म संबन्धिन्या दशाननस्य व्याप्तुमभिप्रेतत्वात् । अन्तर्दधानां रक्षोभ्यः मा मां रक्षांसि द्राक्षुरिति । ततश्च ५९१ | अन्तर्धी येनादर्शनम् | १|४|२८|' इत्यपादानसंज्ञा । अन्तर्धिनिमित्तं हि रक्षोभिरात्मनो दर्शनस्यानीसितत्वात् । मलिनां शरीरेण ग्लानमूर्धजां मलिनकेशां बद्धवेणीस्वात् ॥
१ - १७८ । वार्ता प्रवृत्तिर् वृत्तान्त उदन्तः स्यात् ।' इति ना० अ० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com