________________
२१० भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
शकशकायद्भिः शकस्वभावैः शकीभवद्भिः । केन मारुतेन । अत्रामन्दं मन्दं भवति अहरिता हरिता भवन्तीति लोहितादित्वात् क्यष् । अशकाः शका भव न्तीति वाक्ये । '२१२८ । अव्यक्तानुकरणात् - |५|४|५७ |' इति डाच् । तस्मिन्वि भूते 'डाचि बहुलं द्वे भवतः ।' 'नित्यमाम्रेडिते डाचि' इति पररूपत्वम् । डाजन्तात् शकशकाशब्दात् क्यष् । '२६६९ | वा क्यषः | १| ३ | ९० |' इति परस्मैपदं आत्मनेपदं च ॥
६०८ - अस्यन्दन्नि॑िन्दु- मणयो, व्यरुचन् कुमुदाऽऽकराः, ॥
अलोठिषत वातेन प्रकीर्णाः स्तबकोच्चयाः ॥ ६६ ॥
अस्यन्दन्नित्यादि - चन्द्रोदयादिन्दुमणयः अस्यन्दन् स्यन्दन्ते स्म । तामाटेति योज्यम् । व्यरुचन् कुमुदाकराः विराजितवन्तः । स्तबकोच्चयाः गुच्छराशयः । वातेन प्रकीर्णा इतस्ततो विक्षिप्ताः सन्तः अलोठिषत लुठन्ते स्म । सर्वत्र '२३४५। युच्चो लुङि | १|३ | ११ |' इति विभाषा परस्मैपदम् । द्युतादयश्च कृपूपर्यन्ताः ॥
६०९ - सीताऽन्तिके विवृत्सन्तं वर्त्यत्-सिद्धिं प्लवङ्गमम् ॥
पतत्रिणः शुभा मन्द्रमा॑नुवानास् त्वजिहृदन्. ॥६७॥ सीतेत्यादि - सीतासमीपे विवृत्सन्तं वर्तितुमिच्छन्तं लवङ्गमं वर्त्स्यत्सिवत्स्यन्ती भविष्यन्ती सिद्धिः सीतादर्शनलक्षणा यस्य । '२३४७| वृयः स्य- सनोः । १।३।९२।' इति विभाषा तिप् । तं पक्षिणः शुभाः प्रशस्ता भजिह्नदन् सुखयन्ति स्म । णिचि लुङि चङि रूपम् । कीदृशाः । मन्द्रं गम्भीरं मधुरमानुवानाः वाश्यमानाः । ' माङि नु- प्रच्छयोरुपसंख्यानं ' इति तङ् । '११०८ | णु स्तुतौ' इत्यादादिकस्य परस्मैपदित्वात् ॥
६१० - वर्तिष्यमाणमात्मानं सीता पत्युरिवा ऽन्तिके ॥
उदपश्यत् तदा तथ्यैर् निमित्तैरिंष्ट-दर्शनैः ॥ ६८ ॥ वर्तिष्यमाणमित्यादि - सीतापि तदा तस्मिन् काले पत्यू रामस्यान्तिके आत्मानं वर्तिष्यमाणमिव उदपश्यत् उत्प्रेक्षते स्म । '२३४७॥ वृद्भ्यः स्य- सनो - | १|३|१२|' इति विभाषावचनात्तङ् । निमित्तैश्चक्षुः स्पन्दनादिभिः । तथ्यैरविसंवादिभिः इष्टदर्शनैः इष्टार्थप्रकाशकैः । दर्शनमिति । '२८४१ । कृत्यल्युटो बहुलम् | ३ | ३ | ११३ | ' इति कर्तरि ल्युट् ॥
-
१ - १११२ । समीपे निकटाऽऽसन्न - सन्निकृष्ट सनीडवत् । सदेशाभ्याश - सविध - समर्याद -सदे - शवत् ॥ १११३ | उपकण्ठान्तिका -ऽभ्यर्णाऽभ्यग्रा अप्यभितो ऽव्ययम् ।' २ - ' ५५२॥ शकुन्तिपक्षि- शकुनि - शकुन्त-शकुन - द्विजाः । ५५३ पतत्रि पत्रि- पतग-पतत् पत्ररथा-ण्डजाः ।' ३१९५। स॒त्यं तथ्यमृ॑तं सम्यग॑मूनि त्रिषु तद्वति । । ४ - ५ १२८३ । निमित्तं हेतु लक्ष्मणोः ।' इति सर्वत्र ना० भ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com