________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो' नामाष्टमः सर्गः-२०९ अवादित्यादि-यस्यामशोकवनिकायां वायुतिः शनैर्मन्दमवात् वाति स । तामाटेति वक्ष्यमाणेन संबन्धः । लतां नर्तयमानवत् नृत्यमिव कारयन् । नृतिश्चलने वर्तते । ततश्च । '२७५३। निगरण-१।३।०७।' इत्यादिना परस्मैपदं प्राप्तं । २७५५॥ न पादमि-११३८९।' इत्यादिना प्रतिषिद्धम् । ऋतवो ऽन्योन्यसंपदः परस्परस्य विभूतीः नायासयन्त नोपपीडयन्ति स्म । संत्रस्ता रावणात् । आयूर्वाद्यसेः चित्तवत्कर्तृकत्वात् अणावित्यादिना परस्मैपदं प्राप्तं 'न पादमि' इत्यादिना प्रतिषिद्धम् ॥ ६०४-ज्योत्स्ना ऽमृतं शशी यस्यां वापीर विकसितोत्पलाः॥
अपाययत संपूर्णः सदा दश-मुखाऽऽज्ञया. ॥ ६२॥ ज्योत्स्नेत्यादि-यस्यां रावणाज्ञया शशी सदा संपूर्णः सन् ज्योत्स्नामृतं वापीरपाययत पायितवान् । निगरणार्थत्वात्तिपि प्राप्ते न पादमीत्यादिना प्रतिषिद्धे णिचश्चेति तङ्॥ ६०५-प्रादमयन्त पुष्पेषु यस्यां बन्धः समाहृताः॥
परिमोहयमाणाभी राक्षसीभिः समावृताः ॥ ६३ ॥ प्रादमयन्तेत्यादि-यस्यां बन्धः समाहृताः समानीताः पुष्पेषु कामं प्रादमयन्त शमितवत्यः । तन्मतस्याचरणात् । कीदृश्यः। परिमोहयमाणाभिः व्यामोहयन्तीभिः राक्षसीभिः परिवृताः । दमि-परिमुह्योः अणावित्यादिना प्राप्तस्य पर• स्मैपदस्य न पादमीत्यादिना प्रतिषेधे णिचश्चेत्यात्मनेपदम् ॥ ६०६-यस्यां वासयते सीतां केवलं स्म रिपुः स्मराँत् ॥
न त्वरोचयता ऽऽत्मानं चतुरो वृद्धि-मानपि ॥६॥ यस्यामित्यादि-रिपुर्दशाननः स्मरात् कामाद्धेतोः केवलं निष्फलं यस्यां सीतां वासयते स वासितवान् । न त्वरोचयत आत्मानं नैवात्मानमुपरोचितवान् । चतुरो ऽपि योषिदाराधनकुशलो ऽपि । वृद्धिमानपि संपयुक्तो ऽपि । रोचिवास्योरणावित्यादिना प्राप्तस्यापि च परस्मैपदस्य न पादमीति प्रतिषेधे णिच. श्वेति तक॥ ६०७-मन्दायमान-गमनो हरितायत्-तरं कपिः, ॥
द्रुमैः शकशकायद्भिर् मारुतेना ऽऽट सर्वतः. ॥६५॥ मन्देत्यादि-कपिः सर्वतः सर्वत्र तामाट विजहार । यत्तदोर्नित्यसंबन्धा. तामिति गम्यते । मन्दायमानगमनः मन्दीभवद्मनः । कीदृशीम् । हरिताय. त्तरं शादलीभवदृक्षाम् । अप्राणिजातेश्चेत्यूङ । द्रुमैरुपलक्षिताम् । कीदृशैः ।
१-२८२। वापी, तु दीर्घिका।' २-बन्दिशालास्थिताः स्त्रिय इत्यर्थः । '८८४। प्रग्रहोपग्रही बन्यां, कारा स्याद् बन्धनालये।' ३-२७ । मदनो मन्मथो मारः कामः पञ्चशरः स्मरः।' इति सर्वत्र ना० अ०। Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com