________________
२०८ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
'९७४ | ध्यै चिन्तायाम्' इत्यस्य लुङि रूपम् । नशिजन्योरकर्मकत्वात् ' ३७५४ । अणौ-|१|३|८८|' इत्यनेन लिङः परस्मैपदम् । न बुधेत्यादिना जनीनृषित्यादिना । जनेर्मित्संज्ञायां ह्रस्वत्वम् ॥
६०० - दृष्ट्वा राघव- कान्तां तां द्रावयिष्यामि राक्षसान् ॥
तस्या हि दर्शनात् पूर्वं विक्रमः कार्य-नाश - कृत्. ॥५८॥
दृष्टेत्यादि - इयमसाविति राघवस्य कान्तां दृष्ट्वा द्रावयिष्यामि राक्षसान् पलाययिष्यामि । अत्र अणावित्यनेन न बुधेत्यादिना तस्याकर्मकस्य चित्तवत्कर्तृकत्वात् । हि यस्मात् तस्याः सीताया दर्शनात्पूर्वं विक्रमः कार्यस्य सीतादर्शनरूपस्य नाशकृत् ॥
६०१ - चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः ॥
अशोक-वनिकामा॑द॑पश्यत् स्तबऽऽचिताम् . ५९
-
चिन्तयन्नित्यादि — इत्थं पूर्वोक्तप्रकारेण चिन्तयन्नारात्समीपे अशोकवनिकामपश्यत् । उत्तुङ्गैरुच्चैर्वनैर्दिवमाकाशं प्रावयन्तीं व्याप्तवानाम् । '२७५२। बुधयुध - ११।३।८६ ।' इत्यादिना तिप् । प्रवतेरकर्मकस्याचित्तवत्कर्तृकत्वात् । अशोकवनिकायाश्चाचित्तवतीत्वात् । स्तबकाचितां अशोकपुष्पस्तबकैः छन्नाम् ॥
कुलकम् ६०-६४
६०२ - तां प्राविशत् कपि-व्याघ्रस् तरून-चलयन् शनैः ॥
अ-त्रासयन् वन-शयान् सुप्तान् शाखासु पक्षिणः ६०
तामित्यादि - तामशोकवनिकां कपिव्याघ्रः कपिर्व्याघ्र इव शनैर्मन्दं प्राविशत् । तरूनचलयन् अकम्पयन् । चलेरकर्मकत्वाच्चित्तवत्कर्तृकादणावित्यनेन च लटः परस्मैपदं न निगरणेत्यादिना । तद्धि तत्र सकर्मकार्थं अचित्तवत्कर्तृकार्थं चेत्युक्तम् । वनशयान् पक्षिणः शाखासु सुप्तान् अत्रासयन् । '२७५४ | अणौ|१|३|८८|' इत्यनेन परस्मैपदम् । वने शेरत इति '२९२९ । अधिकरणे शेतेः ।३।२।१५|’ इत्यच् । ‘९७६ । शय वास वासिषु - | ६ | ३ | १८ |' इत्यादिना सप्तम्या विभाषा अलुक् ॥
६०३ - अवाद् वायुः शनैर् यस्यां लतां नर्तयमान - वत् ॥ नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य - संपदः ॥ ६१ ॥
१ – — १११५ । उच्च-प्रश॑न्नतोदोच्छ्रितास् तुङ्गे ।' २ –'१४५१ । आराद् दूर-समीपयोः ।' ३ – ' ३६४ । स्याद् गुच्छकस् तु स्तबकः, कुड्मलो मुकुलो स्त्रि याम् ।' ४ –'३५३ । वृक्षो महीरुहः शाखी विटपी पादपस् तरुः' । ५ - ' ३५९ । समे शाखा-लते, स्कन्धशाखा- शाले, शिफा जटे ।' इति सर्वत्र ना० अ० |
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com