________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक वनिका-भङ्गो' नामाष्टमः सर्गः-२०७
व्यरमदित्यादि-यमाद्रावणात् सहस्रगिन्द्रः परित्रस्तः ५८८। भीत्रार्थानाम्-१।४।२५।' इत्यपादाने पञ्चमी । प्रधनात् युद्धात् । व्यरमत् उपरतव्या. पारोऽभूत्। २७४९। व्याङ्-परिभ्यो रमः ।।३।८३।' इति परस्मैपदम् । जुगुप्सा. विराम-प्रमादार्थानामपादाने पञ्चमी । तस्य दर्शनान्मारुतात्मजः हनूमान् क्षणं पर्यरमत् तुष्टिमानभवदित्यर्थः । 'साधु रावण' इति । पूर्ववल्लङः परस्मैपदम् ॥ ५९६-उपारंसीच च संपश्यन् वानरस् तं चिकीर्षितात् ॥ ___ रम्यं मेरुर्मिवाऽऽधूत-काननं श्वसनोर्मिभिः ॥५४॥
उपेत्यादि-तं रावणं पश्यन् वानरः चिकीर्षितात्कर्तुमिष्टात् सीतान्वेषणादुपारंसीत् निवृत्तः । उपाञ्चेत्यधिकृत्य २७५१। विभाषाऽकर्मकात् ।।३।८५।' इति लुङः परस्मैपदम् । तस्य मेरोरिव रम्यत्वात् तदाह मेरुमिव । श्वसनोर्मिभिः वातसमूहैः । आधूतकाननं प्रचलितवनं मेरुम् । तथा श्वसनोर्मिभिः श्वसित. कल्लोलैः आधूतानि शिरांस्थाननानि च यस्येति ॥ ५९७-दृष्ट्वा दयितया साकं रहीभूतं दशाननम् ॥
ना ऽत्र सीतेत्युपारंस्त दुर्मना वायु-संभवः ॥ ५५ ॥ दृष्ट्रेत्यादि-रहीभूतं विजनस्थं दशाननम् । २१२१॥ अहर्मनश्चक्षुः-५४५१॥' इत्यादिना च्वौ सलोपः। दयितया साकं दृष्ट्वा नात्र सीतेति कृत्वा उपारंस्त विमना निवर्तते स्म । '२७५१। विभाषा ऽकर्मकात् ।।३।०५।' इति तङ् । वायुसंभवो हनुमान् ॥ ५९८-ततः प्राकारमारोहत् क्षपाटानविबोधयन् , ॥
नाऽयोधयत् समर्थोऽपि सीता-दर्शन-लालसः ॥५६॥ तत इत्यादि-तत उत्तरकालं प्राकारमारोहत् आरूढवान् । क्षपाटान् राक्षसान् अविबोधयन् अचेतयन् । '२५६४। णिचश्च । ११३।७४।' इत्यात्मनेपदे प्राप्ते '२७५२। बुध-युध-११३८६।' इत्यादिना वा लटः परस्मैपदम् । बुधेरणौ सकर्मकस्य चित्तवत्कर्तृत्वात् हनूमतश्चित्तवत्त्वात् । तत्र छकर्मका ये तेषामचित्तवत्कर्तृकरवार्थमुपादानमित्युक्तम् । तानायोधयत् समर्थो ऽपि न संग्रामितवान् । यतः सीतादर्शनलालसः लम्पटः । '२७५४। अणावकर्मकात्-१।३।०८।' इत्यनेन उभयत्रापि लङः परस्मैपदम् । युधेरेकस्याचित्तवत्कर्तृकत्वात् ॥ ५९९-अध्यासीद्, 'राघवस्या ऽहं नाशयेयं कथं शुचम्, ।।
वैदेह्या जनयेयं वा कथमानन्दमुत्तमम् ॥ ५७ ॥ अध्यासीदित्यादि-राघवस्याहं कथं केन प्रकारेण शुचं शोकं नाशयेयम् । कथं वा वैदेह्याः सीताया आनन्दं जनयेयमिति हनुमानध्यासीत् चिन्तितवान् ।
१-१२०५ । कं शिरोम्बुनोः। २-१०५३ । दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः। ३-३२२ । प्राकारो वरणः सालः।' इति सर्वत्र ना० अ०॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com