________________
तथा लक्ष्य रूपे कथानके ऽ' शोकवनिका भङ्गो' नामाष्टमः सर्गः - २०१ ५७४-यानैः समचरन्ता ऽन्ये कुञ्जराऽश्व रथाऽऽदिभिः ॥ संप्रायच्छन्त बन्दीभिर॑न्ये पुष्प फलं शुभम् ॥ ३२ ॥
यानैरित्यादि - अन्ये यानैः कुञ्जरादिभिः समचरन्त संचरन्ते स्म । '२७२७| समस्तृतीयायुक्तात् | १|३|५४ |' इति तङ् । अन्ये बन्दीभिरानीताभिः । सम्प्रदाने तृतीया । अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवति इति वचनाद्वन्दीभ्य इत्यर्थः । पुष्पफलं शोभनं संप्रायच्छन्त ददति स्म । '२७२६ । दाणश्च सा चेच्चतुर्थ्यर्थे |१|३|५५|' इति तङ् । पुष्पफलमिति जातेरेकवद्भावः ॥
५७५ - कोपात् काश्चित् प्रियैः प्रत्तमुपायंसत नाऽऽसैवम्, ॥
प्रेम जिज्ञासमानाभ्यस् ताभ्योऽऽशप्सत कामिनः ३३
कोपादित्यादि - काश्चित् स्त्रियः कोपात् अन्यस्त्रीगमनजनितात् । आसवं मद्यविशेषं नोपायंसत न स्वीकृतवत्यः । २७३० | विभाषोपयमने | १|२| १६ |' इत्यकित्त्वपक्षे रूपम् । ‘२७२९ । उपाद्यमः स्वकरणे | १|३|५६ ।' इति तङ् । पाणिग्रहणपूर्वस्य स्वीकरणस्य तत्र स्थितत्वादौपचारिकमत्र स्वीकरणं द्रष्टव्यम् । '२७४२ । समुदाभ्यो यमो ग्रन्थे |१|३|७५१' इति वा तङ् । उदाङ्पूर्वस्य यम आदानार्थत्वात् । अवसरप्राप्तं सूत्रद्वयमुपाहृतं स्यात् । प्रियैः प्रत्तं दत्तम् | '३०७८ | अच उपसर्गात्तः | ७|४|४७।' प्रेम जिज्ञासमानाभ्यः किमस्मासु प्रेमास्ति वा न वेति कृतकोपप्रकाशेन ज्ञातुमिच्छन्तीभ्यः । '२७३१। ज्ञा- श्रु- स्मृ-दृशां सनः |१|३|५७ | ' इति तङ् । ताभ्यो योषिच्यः । कामिनः अशप्सत न मे त्वदन्या प्रियास्तीति तदीयशरीरस्पर्शनेन शपथं चक्रुः । शप उपालम्भने इत्यात्मनेपदम् । वाचा उपालम्भनं शरीरस्पर्शनम् '५७२ श्लाघ- हुङ् - 1१1४१३४ |' इत्यादिना सम्प्रदानसंज्ञया चतुर्थी । तासां ज्ञापयितुमिष्यमाणत्वात् ॥
५७६ - प्रादिदृक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान् ॥
रामं सुमूर्षमाणोऽसौ कपिर् विरह- दुःखितम् ॥३४॥
प्रादिदृक्षतेत्यादि - भसौ कपिर्लङ्कायां नो नृत्यं प्रादिदृक्षत । गायनान् गायकान् । ‘२९०८। गस्थकन् |३|१|१४६ |' ण्युट् च । नाशुश्रूषत न श्रोतुमिष्टवान् किमिति रामं विरहदुःखितं सुस्मूर्षमाणः स्मर्तुमिच्छन् । सन्नन्तेभ्यः पूर्ववदात्मनेपदम् । ' २६१५ | अज्झनगमां सनि | ६ | ४ | १६ |' इति दीर्घत्वम् । ' २४९४ | उदोष्ठयपूर्वस्य | ७|१|१०२ |' इत्युत्त्वम् ॥
१ – ' ८२३ । सर्वं स्याद् वाहनं यानं युग्यं पत्रं च धोरणम् । २ - '८६३ । स्युर् मागधास् तु मगधा बन्दिनस् स्तुतिपाठकाः । । ३ - '१०३९ । मैरेयमासवः सीधुर् मेदको जगलः समौ ।' इति सर्वत्र ना० अ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com