________________
१०० भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयो वर्गः,
कंचिदित्यादि-असौ प्रविष्टः सन् न कंचिदुपावदिष्ट उपसान्वितवान् । उपसम्भाषायां तङ् । केनचियवदिष्ट न, न भाषितवान् । विमतौ तछ । विमतिर्नानामतिः शृण्वन् आकर्णयन् । जनात् संप्रवदमानात् संभूय भाषमाणात् । रावणस्य संबन्धिनो गुणान् । '२७२१॥ व्यक्तवाचाम्-19॥३॥४८॥' इत्यात्मनेपदम् । जनानां व्यकवाक्त्वात् ॥ ५७१-जल्पितोत्क्रुष्ट-संगीत-प्रवृत्त-स्मित-वैलिगतैः॥
घोषस्यान्ववदिष्टेव लङ्का पूत-क्रतोः पुरः. ॥ २९ ॥ जल्पितेत्यादि-पूतक्रतोरिन्द्रस्य या पूः तस्या अमरावत्याः संबन्धिनो घोषस्यान्ववदिष्टेव लङ्का । अनुशब्दः सादृश्ये । सदृशं वादं कृतवती । तैर्जल्पितादिभिः । उभयत्रापि जल्पितादिघोषस्य तुल्यत्वात् । लङ्केति तत्स्थो जन उच्यते । तेन व्यक्तवाग्विषयत्वात् '२७२२॥ अनोरकर्मका-१३४९।' इति तङ् । तत्र व्यक्तवाचामित्यनुवर्तते न समुच्चारण इति ॥ ५७२-ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्म-राक्षसैः ॥
तथाऽवगिरमाणैश् च पिशाचैर् मांस-शोणितम्. ३० ऐदित्यादि-तां ब्रह्मराक्षसैः संयुक्तां हनूमानैत् जगाम । इणो लङि रूपम् । विप्रवदमानैः परस्परविरुद्धार्थाभिधायिमिः । विप्रलापात्मके व्यकवाचा समुच्चारणे २७२३। विभाषा विप्रलापे ।।३।५०।' इति तङ् । तथा पिशाचैमसिशोणितमवगिरमाणैः भक्षयद्भिः संयुक्ताम्। गिरतेरभ्यवहारार्थत्वात्।२७२४॥ भवाद् प्रः ।।३।५।' इति तङ् । मांसशोणितमिति ९१०। जातिरप्राणिनाम् राथा' इत्येकवद्भावः ॥ ५७३-यथा-वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,॥
पान-शौण्डॉः पथः क्षीबा वृन्दैरुदचरन्त च.॥३१॥ यथास्वमित्यादि ब्रह्मराक्षसाः पिशाचाश्च यथास्वमात्मीयस्थ स्वामिनो गुणान् गोष्ठीषु गोष्ठीमध्ये संगिरन्ते स्म अभ्युपगतवन्तः । २७२५। समः प्रतिज्ञाने ।।३।५२ ।' इति तङ् । पानशौण्डाः पानसक्ताः क्षीबा मत्ताः सन्तः पथो मार्गानुदचरन्त उरक्रम्य गच्छन्ति स्म । २७२६॥ उदश्वरः सकर्मकात् ।।३।५३।' इति तङ् । वृन्दैरिति सम्भूयेत्यर्थः ॥
१-११५३ । उक्तं भाषितमुदितं जल्पितमाख्यातममिहितं लपितम् ।' २-२३५। ऋन्दितं रुदितं क्रुष्टं, जुम्मस् तु त्रिषु जम्भणम् ।। ३- '८१४ । आस्कन्दितं धौरितकं रेचितं वलितं प्लुतम् ।' ४-(५६४) श्लोकस्थं टिप्पणं विलोक्यताम् । ५-१०६८ । मत्ते शौण्डोत्कट-क्षीबाः कामुके कमिता ऽनुकः' इति सर्वत्र ना० म०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com