________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो' नामाष्टमः सर्गः-१९९ ५६६-जले विक्रममाणाया हनूमान् शत-योजनम् ॥
आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः ॥ २४ ॥ जल इत्यादि-विक्रममाणायाः पर्चा विचरन्त्याः। '२७१४। वेः पादविहरणे ।।३।४।' इति तङ् । जलग्रहणात् गतिविशेषं दर्शयति । आस्यं शतयोजनं शतं योजनानि यस्य प्रमाणतः । तदणूभूय सूक्ष्मीभूय प्रविश्य निरगात् निर्गतः। उदरं विदार्येत्यर्थात् । अप्रचेतितः अविज्ञातः ॥ ५६७-द्रष्टुं प्रक्रममाणो ऽसौ सीतामम्भोनिधेस् तटम् , ॥
उपास्ता ऽऽकुलं घोरैः क्रममाणैर् निशाचरैः ॥२५॥ द्रष्टुमित्यादि-असौ हनूमान् सीतां दष्टुं प्रक्रममाणः भारभमाणः आदिकमणि यथा भोक्तुं प्रक्रमते इति । उदधेस्तटमुपास्त गन्तुं प्रारब्धवानित्यर्थः । ततश्च प्रोपयोरादिकर्मणि समानार्थत्वात् '२७१५। प्रोपाभ्यां समर्थाभ्याम् ॥ १॥३॥४२।' इति तङ् । घोरैः रौद्रैः । निशाचारैराकुलं व्याप्तम् । तट क्रममाणैः इतस्ततो गच्छद्भिः । '२७१६। अनुपसर्गाद्वा ।।३।४३।' इति तङ् ॥ ५६८-आत्मानमपजानानः शंश-मात्रो ऽनयद् दिनम् , ॥ __ ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पंटुः ॥२६॥
आत्मानमित्यादि-मा कश्चिदद्राक्षीदिति तथाविधमात्मानं शरीरमवजानानः अपहुवानः । २७१७। अपह्नवे ज्ञः ।।२।४३।' इति तङ् । यो हि शशमात्रो भूत्वा स्थितः तेन कथमात्मा लोके नापलपितः स्यात् । अनयद्दिनं भगमयदिवसम् । ज्ञास्ये रात्राविति प्रत्यज्ञास्त प्रतिज्ञातवानित्यर्थः । २७१९। सं-प्रतिभ्यामनाध्याने ।।३।४६।' इत्यात्मनेपदं लुङो भवति । आध्यानं चोत्कण्ठनम् । ज्ञास्ये इत्यकर्मकाचेत्यकर्मकक्रियावचनवादात्मनेपदम् । प्राज्ञः क्रियापटुरिति बुद्धिकौशलं कर्मकौशलं च दर्शयति ॥ ५६९-संजानानान् परिहरन रावणाऽनुचरान् बहून् ॥
लङ्कां समाविशद् रात्रौ वदमानोऽरि-दुर्गमाम् ॥२७॥ संजानानानित्यादि-रावणस्यार्थेषु कार्येषु ये चरन्तीति २९३०। चरेष्टः ।३।२।१६।' तान् बहून् संजानानान् चेतयतः परिहरन् । अनाध्याने तङ् । रात्रौ लङ्कां समाविशत् प्रविष्टवान् । अरिदुर्गमां राक्षसदुर्गमाम् । वदमानो भासमानः । २७२०। भासनोपसंभाषा-1१।३।४।' इत्यादिना आत्मनेपदम् ॥ ५७०-कंचिन् नोपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न, ॥
शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्. २८ १-५२९ । गन्धर्वः शरभो रामः समरो गवयः शशः।' इति ना० अ०॥ २-(५५६) श्लोकस्यं टीकनं द्रष्टव्यम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com