________________
१९८ भट्टि-कान्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयो वर्गः, ५६२-योऽपचके वनात् सीतामधिचके न यं हरिः, ॥
विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम् ॥२०॥ य इत्यादि-यः सीतामपचक्रे अभिबभूव । अवक्षेपणे तङ् । वनादिति वनमुपगम्य । ल्यब्लोपे कर्मणि पञ्चमी । हरिरिन्द्रो नाधिचके न प्रसेहे । '२७०६। मधेः प्रसहने ।।३।३३।' इति तङ् । तस्य बलं दशाननस्य सामर्थ्य कीदृशम् । स्वरान् विकुर्वाणं विविधान् स्वरान् कुर्वाणम् । २७०७। वेः शब्दकर्मणः ।१।२।३४।' इति तङ् । तस्य दशाननस्य बलं निहन्मि ॥ ५६३-विकुर्वे नगरे तस्य पापस्या ऽद्य रघु-द्विषः, ॥
विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः. २१ विकुर्व इत्यादि-तस्य रघुद्विषो रामशत्रोः पापस्य नगरे पुयौं अहमद्य विकुर्वे विविधं चेष्टे । '२७१८ अकर्मकाञ्च ।।३।४५।' इति त । तत्र विकुर्वाणो यदि वा प्रियानपि प्राणान् स्वाम्यर्थे विनेष्ये अपनेष्यामि । '२७०९। संमानन -१३।३६।' इत्यादिना व्यये तङ् । यतो धर्मादिषु विनियोगो व्ययः । यशो वा उदानेष्ये ऊर्ध्वं नेष्यामि तस्यापकारकरणात् । अत्रोत्साने तङ् । उत्सानमुरक्षेपणम् ॥ ५६४-विनेष्ये क्रोधमथवा क्रममाणोऽरि-संसदि ॥'
इत्युक्त्वा खे पराक्रस्त तूर्ण सूनुर् नभैस्वतः ॥२२॥ विनेष्य इत्यादि-यदि वा क्रोधमात्मनो विनेष्ये अपनेष्यामि । '२७२०। कर्तृस्थे च-१॥३॥३७॥' इति तङ् । कर्तृस्थस्य क्रोधकर्मणो ऽशरीरत्वात् अत्र व्ययो न संभवतीति । भरिसंसदि शत्रुसभायां क्रममाणः । अप्रतिबन्धेन प्रवर्त. मानः । २७११॥ वृत्ति-सर्ग-1११३।३०।' इत्यादिना वृत्तौ तछ । वृत्तिरप्रतिबन्धः। इत्येवमुक्त्वा नभस्वतः सूनुर्वायोस्तनयः खे तूर्ण पराक्रस्त शीघ्रमुत्सेहे । २७१२॥ उप-पराभ्याम् ।।३।३९।' इत्यनेन सर्गे तङ् । सर्ग उत्साहः ॥ ५६५-परीक्षितुमुपाक्रस्त राक्षसी तस्य विक्रमम् ॥
दिवमाक्रममाणेव केतु-तारा भय-प्रदा. ॥ २३ ॥ परीत्यादि-तस्य हनूमतो विक्रमं शौर्य परीक्षितुं राक्षसी उपास्त उत्सेहे पूर्ववत्तङ् । दिवमाक्रममाणेव । यथा केतुः स्वर्भानुः तारा नभस्युद्गच्छति भयं. करा । '२७१३। आङ उद्गमने ।।३।४०।' इति तङ् । तत्र हि ज्योतिरुद्रमन इत्युक्तम् । केतुतारायाश्च ज्योतिःस्वभावात् ॥
१-(५४५) श्लोकस्थं टिप्पणमालोचनीयम् । २-७२० । समज्या परिषद् गोष्ठी सभा-समिति-संसदः।।३-(५३९ ) श्लोकस्य टीकनं विलोक्यताम् । ४-१२६७ । ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः । इति सर्वत्र ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com