________________
बालकि पूर्ववदात्मयोगी स्याम्' इति अभिप्रायाः कदा
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका-भङ्गो' नामाष्टमः सर्ग:-१९७ स एषां ग्रामणीः ।५।२।७८।' इति कः । १३७३। प्रत्ययोत्तरपदयोश्च ।।२।९।' इति मदादेशः । संगच्छस्व संगतो भव । पूर्ववदात्मनेपदम् । समारन्त ममाभीष्टा इति ममाभिप्रेता ये संकल्पा अभिप्रायाः 'कदा नु मे सुहृत्तया वा कश्चिदेष्यति यस्याहमुपयोगी स्याम्' इति ते समारन्त आगताः त्वय्युपागते सति । अर्तेलुङि पूर्ववदात्मनेपदम् । '२३८२। सर्ति-शास्त्यर्तिभ्यश्च ।३।११५६।' इत्यङि '२४०६। ऋ-दृशोऽङि गुणः ।७।४।१६' । २२५४। आडजादीनाम् ।।१।७२।' भाषाविषयस्य प्रयोगः ॥
न चैवं मिथ्या वायुमें सुहृदित्याह५५९-के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखा, ॥
यत्नार्दुपाह्वये प्रीतः, संह्वयस्व विवक्षितम् ॥ १७ ॥ क इत्यादि-वायोमैनाकाद्विर्यथा सखेति के न संविद्रते जानन्ति । वेत्तेः पूर्ववदात्मनेपदम् '२७०१॥ वेत्तेर्विभाषा ।।१।।' इति रुट् । तस्मात् । प्रीतः सन् अहं यत्नादुपाह्वये भवन्तमाह्वयामि । ततः संवयस्व कथय विवक्षितमभिप्रेतम् । २७०३। नि-समुपविभ्यो ह्रः ।।३।३०।' इत्यकर्त्रभिप्राये लट्लोटोरात्मनेपदम् । ततो कर्मकादिति निवृत्तम् । सामान्येन विधानम् ॥ ५६०-द्योमिवावयमानं तमवोचद् भूधरं कपिः ॥
उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीवि-वत्. ॥ १८ ॥ द्यामित्यादि-द्यामिवाकाशमिवाह्वयमानं महत्तया स्पर्धमानम् । २७०४ । स्पीयामाङः ।।३।।' इत्यात्मनेपदम् । अत्यर्थमुपकुर्वन्तं आतिथ्येन तमीशं भूधरमवोचत् । कपिः प्रकुर्वाणः सेवमानो ऽनुजीविवत् भृत्यवत् । २७०५। गन्धन-1१॥३॥३२।' इत्यादिना सेवने तङ् ॥ ५६१-'कुल-भार्या प्रकुर्वाणमहं द्रष्टुं दशाननम् ॥
यामि त्वरा-वान् शैलेन्द्र!, मा कस्यचिदुपस्कृथाः. १९ कुलभार्यामित्यादि-अहं दशाननं द्रष्टुं यामि कुलभायाँ प्रकुर्वाणं कुलनारीमभिगच्छन्तम् । तस्यां सहसा प्रवर्तमानमित्यर्थः । साहसिक्ये तङ् । त्व. रावान त्वरायुक्तः । अतः हे शैलेन्द्र ! मा कस्यचिदशनपानादिकस्य उपस्कृथाः अतिशयवन्तं मा कार्षीरित्यर्थः । माङि लुङ् । प्रतियत्ने तङ् । '२५४७। तनादिभ्यस्त-थासोः ।२।४।७९।' इति सिचो लुक् । '२५५२। उपात्प्रतियत्न-1६11१३९।' इति सुट । कस्यचिदिति ७१४ । कृतः प्रतियत्ने ।२।३।५३' इति कर्मणि षष्ठी॥
१७७७ वयस्यः स्निग्धः सवया, अथ मित्रं सखा सुहृत् ।। २-८० । द्यो दिवो दे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगनमनन्तं सुरवमै खम् । वियद् विष्णुपदं वा तु पुंस्याकाश-विहायसी ॥' ३-७७४। षण्डो वर्षचरस तुल्यौ, सेवकार्यनुजीविनः । इति सर्वत्र ना० अ०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com