________________
२०२ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, ५७७- अनुजिज्ञासतैवाऽथ लङ्का - दर्शनमिन्दुना ॥
तमोऽपहविमुक्तांशु पूर्वस्यां दिदेयत. ॥ ३५ ॥
अन्वित्यादि - अथैतस्मिन् प्रस्तावे इन्दुना चन्द्रेण उदैयत उदितम् । इणो भावे लङि रूपम् । पूर्वस्यां दिशीति पूर्णेनेति दर्शयति । दृश्यते तत् दर्शनं रूपम् । लङ्काया रूपमनुजिज्ञासतेव । पूर्वेण प्राप्तस्यात्मनेपदस्य (२७३२ । नानोज्ञः | १|३|५८ |' इति प्रतिषेधः । तमोपहास्तमोध्वंसमानाः विमुक्ताः प्रेरिता अंशवो यस्मिन् उदय इति ॥
५७८-आशुश्रूषन् स मैथिल्या वार्ता हेर्येषु रक्षसाम् ॥
शीयमानाऽन्धकारेषु समचारीर्द - शङ्कितः ॥ ३६ ॥
.
आशुश्रूषन्नित्यादि - स कपिमैंथिल्याः सीताया वार्तामा शुश्रूषन् श्रोतुमि - च्छन् । ‘२७३३। प्रत्याभ्यां श्रुवः | १|३|५९ |' इत्यात्मनेपदप्रतिषेधः । रक्षसां हर्म्येषु गृहेषु । समचारीत् संक्रान्तवान् । '२३३० । अतो लरान्तस्य । ७२२ इति वृद्धिः । शीयमानान्धकारेषु अपगच्छत्तमःसु । '९१२| शब्द शातने' । '२३६२ । शदेः शितः | १|३|६०|' इति तङ् । '२३६० । पाघ्रा - १७१३।७८।' इति शीयादेशः । अशङ्कितः शङ्कारहितः ॥
५७९ - शत-साहस्रमरक्षं मध्यगं रक्षसां कपिः ॥
ददर्श, यं कृतान्तोऽपि वियेताssसाद्य भीषणम्, ३७
शतेत्यादि - मध्यगं मध्यप्रकोष्ठगतं आरक्षं गोपकं शतसाहस्रं रक्षसां लक्षमात्रं ददर्श विलोकितवान् । शतसहस्रं परिमाणमस्येति प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकीति वचनात् । ' १६९२ । शतमानविंशतिक - |५|१|२७|' इत्यादिना भणि । ‘१७५२ । संख्यायाः संवत्सर - १७|३|१५|' इत्युत्तरपदवृद्धिः । भीषणं भयानकं आसाद्य प्राप्य । कृतान्तो ऽपि यमो ऽपि म्रियेत प्राणान् संत्यजेत् । '२५३८ । म्रियतेर्लुङ्ग लिङोश्च | १|३ | ६१|' इति तङ् । तत्र हि शित इत्यनुवर्तते ॥ ५८० - अध्यासिसिषमाणे ऽथ वियन्-मध्यं निशा - करे ॥
कासांचक्रे पुरी सौधरतीवद्भासिभिः सितैः ॥ ३८ ॥
अधीत्यादि - अथ निशाकरे चन्द्रमसि वियन्मध्यं अध्यासितुमारोदुमिच्छति सति । '२७३४ । पूर्ववत्सनः |१|३|६२ ।' इत्यात्मनेपदम् । अस्तेरनुदात्तेत्त्वमात्मनेपदनिमित्तम् । तेनैव सन्नन्तादपि भवति । अत्र सनि इटि कृते अजादेर्द्वितीय
१ - १४४७। व्यूहो वृन्देऽप्यहिर् वृत्रे ऽप्यग्नीन्द्वर्कास तमोपहाः । २ –'३२९५ यिद धनिनां वासः, प्रासादो देव-भूभुजाम् ।' ३ – ६६ । कृतान्तो यमुना-भ्राता शमनो यमराज् यमः । ४ – ' ३२९ | सौधोऽस्त्री राजसदनमुपकार्योप• कारिका ।' इति सर्वत्र ना० अ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com