________________
१९४ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः,
-
I
तदेवं हनूमतः समुद्रो हनूमानपि समुद्रस्य धैर्यं न व्यतिजिग्ये नामिबभूव । एकवचनस्य प्रत्येकाभिसंबन्धात् । कर्मव्यतीहारे पूर्ववदात्मनेपदम् । '२३३१ । सँलिटोर्जेः | ७|३|५७ |' इति कुत्वम् । तस्य हनूमतो गतं गमनं प्रचण्डोऽपि महान् प्रभञ्जनो वायुर्न व्यत्यगच्छत् प्राप्तवान् ॥
तस्यातिजवेन गच्छतः पथि राक्षसी संप्राप्ता तामसौ व्यापादितवानित्याह५४७ - व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः ॥ जघानाऽऽविश्य वदनं निर्यात् भित्त्वोदरं द्रुतम् ५
व्यतीत्यादि — हनिष्याम्येनमिति राक्षस्या यो वधकरणावसरः तत्र व्यतिघ्नन् व्यतिघ्नन्तीं तस्यैनां हनिष्यामीति यो वधकरणावसरः तत्र नन्तीं तदेवमितरेतरक्रियाकरणेन व्यतिघ्नन्तीं राक्षसीम् । न गतीत्यादिना हिंसार्थत्वादात्मनेपदप्रतिषेधः । तां पवनात्मजो हनूमान् जघान । कथं वदनमाविश्य उदरं भित्त्वा द्रुतं निर्यात् निर्गच्छन् । यातेः शतरि रूपम् ॥
५४८ - अन्योन्यं स्म व्यतियुतः शब्दान् शब्दैस् तु भीषणान् ॥ उदन्वांश् चा॑निलॊद्धूतो म्रियमाणा च राक्षसी ॥ ६ ॥
अन्योन्यमित्यादि - अन्योन्यमित्यन्योन्यस्येत्यर्थः । 'कर्मव्यतिहारे सर्व - नानो द्वे भवतः स्त्रीनपुंसकयोरामभाव इति वक्तव्यम्' । अन्योन्यस्य संबन्धिभिः शब्दैः उदन्वद्राक्षस्यौ शब्दान् भीषणानात्मीयान् व्यतियुतः स्म मिश्रितवन्तौ । ‘११०६। यु मिश्रणे' इत्यस्मात् '२७७८ । लट् स्मे | ३ |२| ११८ | ' इति भूते लट् । '२६८२ । इतरेतर - 1१|३|१६|' इत्यादिना कर्मव्यतिहार आत्मनेपदप्रतिषेधः । तत्रोदन्वतः शब्दकरणाद्यो भीषणशब्दमिश्रणावसरो भावी तन राक्षसी म्रियमाणा शब्दान् भीषणानुदन्वच्छन्दैर्युयाव । राक्षस्याः शब्दकरणाद्यो भीषणशब्द मिश्रणावसरो भावी तत्रोदन्वाननिलोद्धूतः शब्दान् भीषणान् राक्षसीशब्दैर्युयाव ॥
५४९ - न्यविक्षत महा- ग्रोह-संकुलं मकराऽऽलयम् ॥
सैका बहूनां कुर्वाणा नत्राणां स्वाऽऽशितम्भवम् ॥७॥ न्यविक्षतेत्यादि - महद्भिग्रहैः संकुलं मकरालयं समुद्रं न्यविक्षत प्रविटवती । ‘२६८३ । नेर्विशः | १|३ | १७|' इत्यात्मनेपदम् ' २३३६ । शल इगुपधादनिटः सः | ३ | १|४५|' बहूनां नक्राणामेकापि सती स्वाशितम्भवं सुष्ठु तृप्तिं कुर्वाणा । '२८६२ । आशिते भुवः | ३ |२| ४५|' इति भावे खच् ॥
१ २७५ । ग्राहोऽवहारो, नक्रस् तु कुम्भीरः ।' इति ना० म० । Shree Sudharmaswami Gyanbhandar-Umara, Suratww.umaragyanbhandar.com