________________
तथा लक्ष्य-रूपे कथानके 'ऽशोकवनिका भङ्गो' नामाष्टमः सर्गः - १९३ शयितवन्तः । ङित्त्वात्तङ् । '२४४२| शीङो रुट् | ७|१|६|' | '२४४१ । शीङः सार्वधातुके गुणः | ७|४|२१॥ ॥
५४४ - अभायत यथाऽर्केण सुप्रातेन शरन-मुखे, ॥
गम्यमानं न तेनाssसीदंगतं कामता पुरः ॥ २॥
अभायतेत्यादि - यथा अर्केण सुप्रातेन सुप्रभातेन नीहाराद्यभावात् । शोभनं प्रातरनेनेति । '८६० | सुप्रात- सुश्व - |५|४ | १२० । ' इति समासान्तनिपातनम् । शरन्मुखे शरदारम्भे । अभायत दीप्यते स्म । ' २६७९ | भाव- कर्मणोः |१|३|१३|' इति भावे तङ् । तद्वत्तेनाभायत । पुरोऽग्रतो यदर्केण गम्यमानमवटभ्यमानं वर्मेत्यर्थात् । कर्मण्यात्मनेपदम् । तेन हनूमता क्रामता गच्छता । शिति क्रम इति दीर्घत्वम् । नागतमासीत् अपि तु सर्वमेव गतमिति ॥ ५४५ - वियति व्यत्यतन्वातां मूर्ती हरि- पयोनिधी, ॥
व्यत्यैतां चौत्तमं मार्गम॑र्केन्द्रेन्दु-निषेवितम् ॥ ३ ॥
1
वियतीत्यादि - हरिपयोनिधी हनूमत्समुद्रौ मूर्ती स्वदेहौ वियत्याकाशे व्यत्यतन्वातां व्यतिविस्तारितवन्तौ । तनोतेर्लङ् । '२६८० । कर्तरि कर्मव्यतिहारे ।१।३।१४।' इत्यात्मनेपदम् । उत्तमं च मार्ग अर्केन्द्रेन्दुनिषेवितं व्यत्यैतां व्यतिगतवन्तौ । इणः परस्य लङः कर्मव्यतिहार इत्यात्मनेपदं प्राप्तं ' २६८१ । न गतिहिंसार्थेभ्यः । १।३।१५।' इति गत्यर्थत्वात् प्रतिषिद्धं तेन तसस्तामादेशः । तत्र हरेर्गच्छतः पुरतो यस्मिन्वियत्प्रदेशे स्वमूर्ति विस्तारितुमवसरो भविता, तत्र पयोनिधिरूर्मिभिः स्वमूर्ति वितस्तार । पयोनिधेश्च वेला तटं गच्छतो यत्र स्वमूतिविस्तारावसरो भावी तत्र हरिः स्वमूर्ति वितस्तार । तथा पयोनिधेर्य मार्ग गन्तुमवसरो भविता हरिरुत्पत्य तं मार्ग गन्तुमैच्छत् । यं च हरेर्मार्गे गन्तुमवसरो भविता तं मार्ग पयोनिधिरभ्रंलिहै रूर्मिभिरैच्छत् । यत्र यत्क्रियावसरे क्रियां करोति स तत्र तत्क्रियाकारीत्युपचर्यते । यथा देवदत्तसाध्यां क्रियां यज्ञदत्तः कुर्वन् तत्कारीत्युच्यते । ततश्वेतरेणेतरसंबन्धिन्याः क्रियाया: करणात् अन्यतरसंबन्धिन्याश्चेत् सम्भवति कर्मव्यतिहारः ॥
"
५४६ - व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः ॥
व्यत्यगच्छन् न च गतं प्रचण्डोsपि प्रभञ्जनः ॥४॥
"
व्यतीत्यादि - तस्य हरेर्गच्छतः स्वदेहस्याल्पतां कर्तुं योऽवसरो भावी तत्र समुद्रो नातिशयधैर्यं कृतवान् । तेन तस्य धैर्यं न जितं तदानीं तस्योद्धतकलोलत्वात् । अपिशब्दाच्च हनूमानपि समुद्रस्य शान्तत्वं कर्तुं योऽवसरो भावी तत्र नातिशयधैर्य तेन तस्य धैर्य वा न जितं तदानीं तस्य विपुलकायत्वात् । १–‘१३८३ । यमाऽनिलेन्द्र चन्द्राऽर्क-विष्णु-सिंहांऽशु-वाजिषु । शुकाऽहि कपि- मेकेषु हरिर् ना कपिले त्रिषु ।' इति नानार्थेऽमरः ।
'कृतवान् ।
भ० का० १७
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com