________________
१९२ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयो वर्गः, पधादिकारोपधाच्च रलन्ताद्धलादेर्धातोः परौ क्त्वासनौ वा न कितौ भवत इति सूत्रार्थः । ५४२-विलोक्य सलिलोच्चयानधि-समुद्रमभ्रंलिहान्
भ्रमन्-मकर-भीषणं समधिगम्य चा ऽधः पयः ॥ गमाऽऽगम-सहं द्रुतं कपि-वृषाः परिप्रेषयन्
गजेन्द्र-गुरु-विक्रम तरु-मृगोत्तमं मारुतिम् ॥१०८॥ विलोक्येत्यादि-कपिवृषाः कपिमुख्याः मारुति हनुमन्तं द्रुतं परिप्रेषयन् व्यसर्जयन् । परिप्रपूर्वोत् १२०२॥ इष गतौ' इत्यस्मात् हेतुमण्ण्यन्तात् लङि रूपम् । किं कृत्वेत्याह । विलोक्य सलिलोच्चयान् सलिलोर्मीन् । उर्व चीयत इति '३२३१॥ एरच् ।३।३।५६॥' । अधिसमुद्रं समुद्रस्योपरि। अनंलिहान दूरमुच्छ्रितान् । अधश्च पयः समधिगम्य ज्ञात्वा। कीदृशम् । भ्रमद्भिर्मकरैर्भाषणं भयानकम् । भीषयतीति नन्दादित्वाल्युः । गमागमसहं गमनागमनयोग्यं मारुतिम् । गजेन्द्रस्येव गुरुर्विक्रमो यस्य । तरुमृगेषु वानरेषत्तममिति । सप्तमीति योगविभागात् सः॥
॥ इति डिवाधिकारः॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्येद्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयः परिच्छेदः (वर्गः), तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः
सर्गः पर्यवसितः।
अष्टमः सर्गः। आत्मनेपदमधिकृत्याह५४३-अगाधत ततो व्योम हनूमानुरु-विग्रहः, ॥
अत्यशेरत तद्-वेगं न सुपर्णाऽर्क-मारुताः॥१॥ अगाधतेति-ततो विसर्जनान्तरं हनूमान् समुद्रलङ्घनाय ब्योमाकाशमगाधत प्रस्थितवान् । '४। गार प्रतिष्ठा-लिप्सयोः।' इत्यस्मालछ। २१५७। अनुदा. त्तडितः-१३।१२।' इत्यनुदात्तेवादात्मनेपदम् । उरुविग्रहः कामरूपित्वात् तदानीमुत्पादितविपुलकायः । तस्य चोत्पततो वेगं गरुडादित्यपवनाः नात्यशेरत नाति
१-'पद्येऽस्मिन् पृथ्वी वृत्तम् । तल्लक्षणं तु-९४। जसौ जस-य-ला वसु ग्रहयतिश् च पृथ्वी गुरुः ।' इति वृत्तरत्नाकरे भट्टकेदार आह । २-१४२९। शुक्रले मूषके श्रेष्ठे सुकृते वृषमे वृषः।' ३-३३ । गरुल्मान् गरुडस ताक्ष्यों वैनतेयः खगेश्वरः ॥ ३४॥ नागान्तको विष्णु-रथः सुपर्णः पन्नगाऽशनः।' इति सर्वत्र आ० अ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com