________________
तष लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्ग:- १९१ अमर्षित इत्यादि-सलिलोमिमिः कल्लोलैः । तटादीन् तटस्थान् पर्वतान् मन्तं प्रत्युदैशन्त । अमर्षितमिव '३०५५। मृषस्तितिक्षायाम् १॥२०॥' इति कित्त्वप्रतिषेधः पश्चात् नसमासः। श्रिया हेतुभूतया समग्रं संपूर्णम् । द्युतितमिति कर्तरि निष्ठा । यदि वा श्रिया कर्तृभूतया द्युतितं शोभितम् । यत्रेत्यध्याहृत्य तमैक्षन्तेति योज्यम् । एवं च कृत्वा '३०५६। उदुपधात्-रा२१॥ इत्यादिना भावे निष्ठायां विकल्पेन कित्त्वप्रतिषेधात् कित्त्वमुदाहृतम् । मदेनेव मत्ततयेव । श्रिया हेतुभूतया प्रलोठितं चूर्णितुमारब्धम् । '३०५३॥ आदिकर्मणि-३॥७॥' निष्ठायामकित्त्वमुदाहृतम् ॥ ५३९-पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वैव स्थितं रुचः ॥
गुम्फित्वैव निरस्यन्तं तरङ्गान् सर्वतो मुहुः ॥१०॥ पूतमित्यादि-नभस्वद्भिर्वायुमिः शीतैः पूतं पवित्रीकृतम् । ३०५०। पूङश्च ॥२॥५१॥' इति विकल्पेनेट् । अत एव पक्षे पूजः क्वानिष्ठयोः कित्त्वप्रतिषेधो ऽत्र न भवति । तत्र सेडित्यनुवर्तते । रुचो दीप्तीग्रन्थित्वेव संदर्येव स्थितम् । ३३२४ानोपधात्थफान्ताद्वा ।२२३॥' इति कित्त्वप्रतिषेधपक्षे रूप. म् । सर्वतस्तरङ्गान् गुम्फित्वेव निरस्यन्तं क्षिपन्तम् । नोपधादिति विकल्पेन कित्त्वप्रतिषेधः । यत्रेत्यध्याहृत्य तमैक्षन्तेति योज्यम् ॥ '५४०-वञ्चित्वा ऽप्यम्बरं दूरं स्वमिंस् तिष्ठन्तमात्मनि ॥ ___ तृषित्वैवा ऽनिशं स्वादु पिबन्तं सरितां पयः ॥१०६॥
वञ्चित्वेत्यादि-स्थित्यनतिक्रमादम्बरं दूरं वञ्चित्वातिक्रम्य । '३३२५॥ वञ्चि लुचि-२२४।' इति कित्त्वप्रतिषेधः । स्वस्मिन्नात्मनि स्वरूपे तिष्ठन्तम् । भत्र १४० नश्छच्यप्रशान् ।।३।७।' इति नकारस्य रुत्वम् । पूर्वस्य त्वनुनासिकादेशः । तृषित्वेव तृषित इव भूत्वा । '३३२६॥ तृषि-मृषि-१२।२५।' इत्यादिना [ कित्त्वविकल्पः । प्रतिषेधः। तत्सलिलस्य स्वादुत्वात् । सरितां पयः स्वादु पिबन्तं भनिशमजस्रम् ॥ ५४१-द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम् ॥
मेरो जेतुमिवा ऽऽभोगमुच्चैर् दिद्योतिषु मुहुः. १०७ द्युतित्वेत्यादि-शशिना नक्तम् रात्रौ द्युतित्वा दीप्तिमता भूत्वा । रश्मि'भिः परिवर्धितं वृद्धिं नीतं सन्तं तोयधिं मेरोराभोगं महत्त्वं जेतुमिव मुहुरुबैर्दियोतिषु वर्धितुमिच्छमित्यर्थः । अनेकार्थत्वाद्धातूनाम् । द्युतित्वा दियोतिषुमिति २६१७। रलो व्युपधात्-१२।२६।' इति कित्त्वाकित्त्वे । तत्र युकारो
१-७० । नभस्वदचात-पवन-पवमान-प्रभजनाः ।। २-(५३८) श्लोकस्यं टिप्पणं विलोकनीयम् । ३-१४७१ दिवा ऽहीत्यथ दोषा च नक्तं च रजनावपि ।' ४-११८ ॥ किरणोस्रमयूखांऽशु-गभस्ति-घृणि रश्मयः।' इति सर्वत्र ना० भ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com