________________
तथा लक्ष्य-रूपे कथानके 'ऽशोकवनिका-भङ्गो' नामाष्टमः सर्गः- १९५ ५५०-कृतेनोपकृतं वायोः परिक्रीणानर्मुत्थितम् ॥
पित्रा संरक्षितं शक्रात् स मैनाकाऽद्रिमैक्षत.॥ ८॥ कृतेनेत्यादि-स हनूमान् समुद्रादुत्थितं मैनाकाद्रिमैक्षत । वायोरुपकृत्त. मुपकारं कृतेन प्रत्युपकारेण परिक्रीणानं परिक्रयं विचिन्वन्तम् । '२६८४। परिव्यवेभ्यः क्रियः ।।३।१८।' इत्यकर्चभिप्रायविषयमात्मनेपदम् । पित्रा वायुना रक्षितं शक्रात् । तेन हि पक्षच्छेदकाले महता वेगेन समुद्रं नीत्वा रक्षित इति श्रूयते ॥ ५५१-खं पराजयमानोऽसावुन्नत्या पवनाऽत्मजम् ॥
जगादाऽद्रिर 'विजेषीष्ठा मयि विश्रम्य वैरिणम्. ॥९॥ खमित्यादि-असावद्रिः उन्नत्या उन्नतया खं पराजयमानोऽभिभवन् पव. नात्मजं जगाद । मयि विश्रम्य स्थित्वा वैरिणं शत्रु विजेषीष्ठाः त्वमभिभूयाः । आशिषि लिङ् । उभयत्रापि २६८५१ वि-पराभ्यां जेः ।१।३।१९।' इति तङ् ॥ ५५२-फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु, ॥
साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम् ॥१०॥ फलानीत्यादि-चित्राणि नानाविधानि फलानि आदरस्व गृहाण । २६८६। आङोदोऽनास्यविहरणे।।३।२०।' इत्यात्मनेपदम् । सानुषु ममैकदेशेषु परिक्रीडख विहर । पक्षिणां च वृन्दानि साधु शोभनं अनुक्रीडमानानि विहरन्ति सन्ति पश्य । उभयत्र '२६८७। क्रीडोऽनु-सं-परिभ्यश्च ।।३।२१॥' इति तङ् ॥ ५५३-क्षण भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः॥
न तत् संस्थास्यते कार्य देक्षणोरीकृतं त्वया.॥११॥ क्षणमित्यादि-हे भद्र कल्याण ! क्षणमवतिष्ठस्व । ततः पश्चात्प्रस्थास्यसे यास्यसि । यच्च कार्य करणीयं दक्षेणानलसेन त्वया उरीकृतमङ्गीकृतं न च संस्थास्यते अपि तु निष्पत्स्यत एवेत्यर्थः । सर्वत्र २६८९। समव-प्र-विभ्यः स्थः ।१।३।२२।' इति तङ्॥ ५५४-त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम् , ॥
उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते. ॥१२॥ त्वयीत्यादि-त्वयि विषये अस्माकं प्रीतिरस्ति । तेन संशये अस्माभिरन्यो निर्णेता नान्वेषणीयः । किन्तु नो ऽस्माकं प्रीतिरेव निर्णयं पश्यन्ती त्वयि तिष्ठते । २६९०। प्रकाशन स्थेयाख्ययोश्च । १।३।२३।' इत्यात्मनेपदम् । विवादपद. निर्णेता स्थय उच्यते । तुभ्यं तिष्ठामहे वयमिति त्वयि विषये अस्माकं चेतो
१-१०१६ । दक्षे तु चतुर-पेशल-पटवः सूत्थान उष्णश् च ।।२-११६४। ऊरीकृत मुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ।' इति सर्वत्र ना० अ० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com