________________
१८६ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
संप्राप्येत्यादि-वानरान् संप्राप्य पक्षी जगाद गदितवान् । के यूयं अदि. मूर्धनि पर्वतशिरसि दुरुपस्थाने दुःखेनोपस्थातुं शक्ये मनसापि किं पुनः शरीरेण । '३३०९। आतो युच्-३।३।१२८।' तत्रापि ईषदादयो ऽनुवर्तन्ते । कर्तृ. कर्मणोरिति न मर्यते॥
इति कृदधिकारः ॥
__ अथ प्रकीर्णकाः। इतः प्रकीर्णकश्लोकानाह५२०-आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम् , ॥
समानोदर्यमस्माकं जटायुं च स्तुथा ऽऽदरात्. ॥८६॥ आत्मन इत्यादि-आत्मनः परिदेवध्वे शोचथ '५३४॥ देव देवने' इति भौवादिकः । शसि '३५५। न संयोगाद्वमन्तात् ।।४।१३७।' इत्यल्लोपो न भवति । जटायुं च समानोदय भ्रातरमस्माकम् । '१६५९। समानोदरे शयितः१०१०' इति यत् । आदरात् प्रस्तुथ प्रस्तुतिं कुरुथ । जटायुः पुण्यकृदि. त्यादिना । रामसत्कथां च कुर्वन्तः अतः के यूयमिति ॥ ५२१-शङ्का-वित्र-वचनं प्रत्यूचुर् वानराः खगम्-॥
'वयं शत्रु-लवित्रेषोर् दूता रामस्य भू-पतेः. ॥ ८७ ॥ शङ्केत्यादि-धुनोत्यपनयत्यनेनेति धवित्रम् । ३१३५। अर्ति लू-धू-३।२।१८४।' इत्यादिना करणे इत्रः। किमयं करिष्यतीति शङ्काधवित्रं वचनं यस्य तं खगं वानराः प्रत्यूचुः। शत्रुलवित्रा इषवो बाणा यस्य रामस्य भूपतेस्तस्य वयं दूताः । पूर्ववदित्रं कृत्वा सः ॥ ५२२-केना ऽपि दौष्कुलेयेन कुल्यां माहाकुली प्रियाम् ॥
हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्.॥८८ ॥ केनेत्यादि-तस्य रामस्य प्रियां केनापि दौष्कुलेयेन हृताम् । दुष्कुलस्या'पत्यमिति ११६५। दुष्कुलाइढक् ।।१११४२।' कुल्यां कुले साचीं '१६५० । तत्र साधुः ।।४।९।' इति यत् । माहाकुली माहाकुलीनस्येति महाकुलस्यापत्यमिति ११६४। महाकुलादल्-खजौ ।४।११४॥' इति अञ्खौ । लिप्सामहे वयं लब्धुमिच्छामः ॥ ५२३-त्रिंशत्तममहर् यातं मत्वा प्रत्यागमाऽवधिम् ॥
अ-कृतार्था विषीदन्तः पर-लोकमुपास्महे. ॥ ८९॥
१-५९७। समानोदर्य-सोदर्य-सगर्म्य-सहजाः समाः।। २-७२९। धवित्रं व्यजनं तद् यद् रचितं मृगचर्मणा ।' ३-८९८ दात्रं लवित्र-मावन्धो योत्रं योक्रमयो फलम् । इति सर्वत्र ना०म०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com