________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः - १८५
५१६ - नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकमागतः, ॥
अ- चेष्टा यदिहा न्यायादनेना इत्स्यामहे वयम् . ८२ नरकस्येत्यादि - अवतीर्यते येन कर्मणेति । '३२९९ । अवे स्नोर्घन् । ३ | ३|१२० ।' स एवायं नरकस्यावतारः प्रत्यक्षो ऽस्माकमागतः । यद्यस्माद्वयमचेष्टाः निश्चलाः अनेन पक्षिणा अन्यायादयुक्तया । नीयते अनेनेति निपूर्वादिणः “३३०१। अध्याय-न्याय | ३ | ३ | १२२ ।' इति निपातनात् घञ् । अत्स्यामहे भक्षयिष्यामहे । कर्मणि लुट् ॥
५१७ – हृदयो॒दङ्क-संस्थानं कृतान्ताऽऽनायं सन्निभम् ॥
शरीरा॒ऽऽखन-तुण्डıऽग्रं प्राप्या-मुं शर्म दुर्लभम् . ८३
हृदयेत्यादि - अमुं पक्षिणं प्राप्य । कीदृशं हृदयोदङ्कसंस्थानम् उदच्यते आकृष्यते अनेनेति उत्पूर्वादञ्चतेः । '३३०२। उदङ्को ऽनुदके | ३ | ३|१२३|' इति घञ् निपात्यते । हृदयस्योदङ्कः संदंशः तत् संस्थानं तत्सदृशम् । कृतान्तानायसन्नि भं यमजालतुल्यम् । तत्प्रविष्टस्य दुःखेन निर्गमत्वात् । '३३०३। जालमानायः | ३ | ३ | १२४ |' इति नयतेराङ्पूर्वात्करणे घञ् निपात्यते । आखन्यते येन तुण्डाग्रेण । खनो घच् । शरीरस्याखनं तादृक् तुण्डाग्रं यस्येति । प्राप्य शर्म सुखं दुर्लभं कृच्छ्रलभ्यम् । ‘३३०५। ईषद् - १३।३।१२६|' इत्यादिना खल । अत्र करणाधिकरणयोश्चेति निवृत्तम् । '२८३३। तयोरेव कृत्य-क-खलर्थाः | ३ | ४ |७०' इति योज्यम् । '३३०६ । उपसर्गात् खल-घञोः | ७|१|६७ |' इति प्राप्तस्य नुमः '३३०७॥ न सुदुर्भ्याम् | ७|१|६८ |' इति प्रतिषेधः ॥ ५१८ - ईषदा॒ढ्यङ्करो ऽप्ये॑षु॒ न परत्रा ऽशुभ-क्रियः, ॥
I
अस्मातुर्मितो ऽभ्येति परिग्लानो बुभुक्षया ॥८४॥'
ईषदित्यादि - य एष अस्मानत्तुमितः प्रदेशादभ्येति आगच्छति स परत्र परलोके ईषदाढ्यङ्करोऽपि अनाढ्यैरीषदाढ्यो ऽपि न कृतः । अशुभेन कर्मणेत्यर्थात् । '३३०८। कर्तृ-कर्मणोश्च भू- कृञोः | ३ | ३|१२७|' इति च्व्यर्थे कर्मोपपदाकरोतेः ः खल । यतः परिग्लानो बुभुक्षया । यो हि कर्मणा शुभेन ईषदाढ्यङ्करो - sपि न कृतः स कथं न बुभुक्षया पीड्यते । परिग्लायतीति कर्तरि बहुलवचनात् ल्युट् । निष्ठान्तो वा । '३०१७ | संयोगादेः - |८|२|४३|' इत्यादिना निष्ठानत्वम् । अशुभक्रियः सत्वद्रोहामिरतत्वात् ॥
५१९ - संप्राप्य वानरान् पक्षी जगाद मधुरं वचः - ॥ 'के यूयं दुरुपस्थाने मनसाऽप्यंद्रि- मूर्धनि ॥ ८५ ॥ इति कृदधिकारः ।
१ - २७०। आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com