________________
१८४ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
इतस्त्रीलिङ्गभावं निवर्त्य कृदुदाहियते५१२-अ-क्केश्यमसिना ऽयन्तं कबन्ध-वधमभ्यधुः, ॥
धि नः प्रपतनं घोरं क्लेदाऽन्तत्वम-नाथ-वत्. ७८ अक्लेश्यमित्यादि-कबन्धवधं योजनबाहोर्वधमभ्यधुः अभिहितवन्तः । भभिपूर्वो धामभिधाने वर्तते । कीदृशम् । अक्लेश्यं प्रयासरहितम् । कस्मात् असिना सुखमरणात् तं चाभ्यन्तं अन्ते तस्थाग्निरभूत् । अस्माकं धिक् प्रपतनं विनाशम् । दुःखेन घोरत्वात् । क्लेदान्तत्वं अन्ते पूतीभावं तद्यत्रास्ति । अर्शआ. दित्वादच् । अनाथानामिव । भक्लेश्यप्रपतनशब्दौ भावसाधनौ । कृत्यल्युटो बहुलमिति ॥ ५१३-ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम् ॥
अशनीयमिवाशंसुर् महानायाद-शोभनः ॥ ७९ ॥ तत इत्यादि-ततो ऽभिहितानन्तरं महान् पक्षी सम्पातिनामा जटायु. भ्राता । आयात् आगतः । मन्दगतो मन्दगमनः। '३०९०। नपुंसके भावे क्तः ।३।३।११४।' आहिताग्नित्वात् परनिपातः । तेषां यत्प्रायोपवेशनं तदशनीयमिव भोजनीयमिव । २८४१॥ कृत्यल्युटो बहुलम् ।।३।११३।' इति कृत्यः । आशंसुः आशंसनशीलः । अशोभनः शोभारहितः। दावाग्निना प्लुष्टशरीरत्वात् । '३२९॥ ल्युट् च ।३।३।।१५।' इति भावे ल्युट । '३२९॥ कर्मणि च येन-३।३।११६।' इत्येतत्परिहृत्योदाहृतत्वात् ॥ ५१४-देह-व्रश्चन-तुण्डाऽयं तं विलोक्या ऽशुभाऽऽकरम् ॥
पाप-गोचरमात्मानमशोचन वानरा मुहुः ॥ ८॥ देहेत्यादि-वृश्यते येन तुण्डाग्रेण । '३२९३। करणाधिकरणयोश्च ।३।३।. ११७॥' इति करणे ल्युट् । देहस्य व्रश्चनमिति कृयोगे षष्ठी। देहव्रश्चनं तुण्डामं यस्य तं विलोक्य । वानरा अशुभाकरं पापस्योत्पत्तिस्थानम् । भाकर इवाकरः । '३२९६। पुंसि संज्ञायां धः-३।३।११८॥' तत्र हि करणाधिकरणयोरिति वर्तते । एवं उत्तरत्रापि चात्मानं पापगोचरं पापविषयं पापविषये पतिता वयमिति मुहुरशोचन शोचितवन्तः । '३२९८॥ गोचर-सञ्चर-३।३।११९।' इत्यधिकरणे निपातितः॥ ५१५-'जटायुः पुण्य-कृत् पक्षी दण्डकारण्य-सञ्चरः॥
कृत्वा राघव-कार्य यःस्वराऽऽरूढोऽग्नि-संस्कृतः८१ जटायुरित्यादि-कृत्वा राघवकार्यम् । अग्निसंस्कृतः अग्निना कृतसंस्कारः। खः स्वर्गमारूढः । जटायुः पुण्यकृत् । संचरत्यस्मिन्निति संचरः। पूर्ववत् निपातितः । दण्डकारण्यं संचरो ऽवस्थानं यस्येति ॥
१-१०२० । ब्रश्चनः पत्रपरशुरीषिका तूलिका समे । इति ना० अ०॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com