________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः - १८३
कल्याणं मन्वानोऽवगच्छन् उपायान्तराभावात् । वालिसम्भवो ऽङ्गदः । योगश्चित्तवृत्तिनिरोधः । तं युक्त्वा संबध्य शैले स्थितः । चित्तवेदनां चित्तपीडां विष्ट - ण्वन् । 'घट्टि - विदि- वन्दिभ्यो युज वक्तव्यः' इति युच् ॥ ५०८ - प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान् ॥ 'धिक् शालभञ्जिका प्रख्यान् विषयान् कल्पना रुचीन् ॥ ७४ ॥
प्रस्कन्दिकामित्यादि - त्वया का क्रिया कर्तव्येत्यन्तैः पृष्टः सन् जाम्बवान् ध्यात्वा विचिन्त्य ब्रूते स्म । प्रस्कन्दिकामिव रोगविशेषमिव प्राप्तो यातः उत्सा• हाभावात् । '३२७५ | रोगाख्यायां ण्वुल बहुलम् | ३ | ३|१०८|' शालभञ्जिका क्रीडाविशेषः । ' ३२८६ | संज्ञायाम् | ३ | ३ | १०९ ।' इति ण्वुल् । '७११। नित्यं क्रीडा - | २|२|१७|' इत्यादिना सः । तत्प्रख्या विषया रूपादयः अतितुच्छत्वात् । अतस्तान् धिक् । किन्तु कल्पनारुचीन् कल्पनीयान् ॥
I
५०९ - यां कारिं राज-पुत्रो ऽयमनुतिष्ठति, तां क्रियाम् ॥ अहमप्यनुतिष्ठामि' सो ऽप्युक्त्वैवमुपाविशत्. ॥७५॥
यामित्यादि - भयं राजपुत्रो ऽङ्गदो यां कारिं क्रियामनुतिष्ठति तां क्रियां अहमप्यनुतिष्ठामि । '३२८७। विभाषा ऽऽख्यान - परिप्रश्नयोरिञ् च | ३ | ३|११० । ' इति करोतेरिज | पक्षे '३२७७॥ कृञः श च | ३ | ३ | १००' इति शः । सोऽप्ये. वमुक्त्वा उपाविशत् अनशनेन स्थितः ॥ ५१०– उवाच मारुतिर् वृद्धे संन्यासिन्यंत्र वानरान् ॥
'अहं पर्याय - संप्राप्तां कुर्वे प्रायोपवेशिकाम्. ॥ ७६ ॥ उवाचेत्यादि - मारुतिर्वानरानुवाच - वृद्धे जाम्बवति संन्यासिनि अनशन - वति अहमप्यत्र शैले पर्यायेण परिपाठ्या संप्राप्तां प्रायोपवेशिकां भनशनं कुर्वे । '३२८८ | पर्यायार्हण - | ३ | ३|१११|' इत्यादिना ण्वुल् ॥
५११ - अ-भावे भवतां यो ऽस्मिन् जीवेत्, तस्याऽस्त्वं जीवनिः, ॥' इत्युक्त्वा सर्व एव स्थुर्
बा योगाssसनानि ते ॥ ७७ ॥
अभाव इत्यादि - अभावे विनाशे भवतां यो ऽस्मिन् लोके जीवेत् तस्यास्वजीवनिः धिग्जीवितम् । '३२८९। आक्रोशे नन्यनिः | ३ | ३|११२ ।' एवमुक्त्वा सर्व एव अस्थुः स्थिताः । तिष्ठतेः '२२२३ । गाति-स्था - १२|४|७७ |' इति सिचो लुक् । बा योगासनानि विरचय्य पद्मासनादीनि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com