________________
१८२ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः,
५०४ - व्रज्या - यती निरुद्धाऽक्षान् विद्येर्वाऽनुष्ठित-क्रियान् ॥ निरचिक्रमदिच्छा- तो वानरांश् चङ्क्रमा-वतः ॥७०॥
व्रजेत्यादि - सा व्रज्यावती प्रशस्तगमनवती । '३२७५ | व्रज-यजोर्भावे क्यप् | ३ | ३|९८ ।' प्रशंसायां मतुप् । वानरान्निरुद्धाक्षान् निरचिक्रमत् निष्कासितवती । क्रमेर्ण्यन्तस्य लुङि '२३१६ । सन्वल्लघुनि - | ७|४|९३ । ' इति सम्वद्भावात् '२३१७ सन्यतः ।७।४।७९।' इतीत्वम् । '२३१८ । दीर्घो लघोः । ७ । ४ । ९४ । ' इति न दीर्घत्वं संयोगपरस्य गुरुत्वात् । अनुष्ठितक्रियानाचरिततदुपदिष्टव्यापारान् । '३२७७॥ कृञः श च |३|३|१००' इति शः । ' २७५६ । सार्वधातुके यक् | ३ | १|६७।' । रिङादेशश्च । चङ्क्रमावतः कुटिलगतिमतः । '३२७९ । भः प्रत्ययात् | ३ | ३ | १०२ ॥ ' इत्यकारः । इच्छात इति वानराणामिच्छायाः । '३२७८| इच्छा | ३|३|१०१ |' इति निपातितम् । इषेः शप् प्रत्ययः छभावश्च निपात्यते । विद्या । '३२७६ | संज्ञायाम् ||३|३|९९ |' इति क्यप् । यथा विद्या अनुष्ठितक्रियान् कृतपुरश्चरणान् पुरुपानिच्छातोऽभीष्टं सम्पादयति तद्वत्सेति ॥
५०५ - निष्क्रम्य शिक्षया तस्यास् त्रपा -वन्तो रसा - तलात् ॥
ज्ञात्वा मासमतिक्रान्तं व्यथाम॑वललम्बिरे. ॥ ७१ ॥
निष्क्रम्येत्यादि - तस्याः शिक्षया उपदेशेन '३२८०। गुरोश्च हलः | ३|३|१०३।' इत्यकारः । तस्माद्वसातलान्निष्क्रम्य निर्गम्य त्रपावन्तः स्त्रिया उपदेशेन निष्क्रान्ता वयमिति त्रपेति । '३२८१ । षिद्भिदादिभ्योऽङ् | ३ | ३ | १०४ |' मासमतिक्रान्तं ज्ञात्वा बहिर्निर्गताः सन्तः व्यथां भयम् । भिदादित्वादङ् । अवललम्बिरे वयं मासावधिना प्रेषिताः स च मासो विनैव कार्येणातिक्रान्त इति स्वामिनो भयम् ॥ ५०६-चिन्ता-वन्तः कथां चक्रुरूपध-भेद-भीरवः ॥
'अ - कृत्वा नृपतेः कार्यं पूजां लप्स्यामहे कथम्. ७२ चिन्तेत्यादि - उपधानमुपधा परीक्षा । '३२८३ । भातश्चोपसर्गे |३|३|१०६ ।' इत्यङ् । तत्परिशुद्धो हि भृत्यः कार्येषु नियुज्यते । तदकरणादुपधाया मेदो ऽभावः तस्माद्भीरवः । चिन्तावन्त इतिकर्तव्यतामूढाः कथां चक्रुः कृतवन्तः । कीदृशीमित्याह । अकृत्वा नृपतेः कार्ये पूजां लप्स्यामहे कथमिति, नैवेत्यर्थः । 'चिन्तादयः । '३२८२। चिन्ति - पूजि - | ३ | ३ | १०५ |' इत्यादिना अङन्ताः ॥ ५०७ - प्रायोपासनया शान्ति मन्वानो वालि-संभवः ॥
युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम् ॥७३॥ प्राय इत्यादि - उपासनेति । '३२८४ । ण्यासश्रन्धो युच् | ३ | ३|१०७ | ' प्रायेण अविच्छेदेन उपवासेनोपासना अनशनेनासनमित्यर्थः । तया शान्ति
१ - ७८७ । मेदोपजापावुपधा धर्माऽऽधैर्यत्परीक्षणम् । इति ना० ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com