________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्ग:- १८१ क्रिः ३।३।४।' फलैस्तृप्ताः सन्तस्तां स्त्रियं भ्राजथुमती शोभावतीम् । पप्रच्छु: पृष्टवन्तः कस्येयं पूरिति । ३२६७। वितो ऽथुच् ॥३॥३॥a तदन्तान्मतुर॥ ५००-रक्ष्णं करोषि कस्मात् त्वं, यत्नेनाऽऽस्याता शुभेम
स्वप्ने निधि-वाभाति तव संदर्शनं हि नः ॥६६॥ रक्ष्णमित्यादि-हे शुभे! कसाद्वा रक्ष्णं रक्षां करोषि । एतद्यत्नेनादरेण नोऽस्माकमाख्यायताम् । उभयत्रापि ३२६८। यज-याच-३।३।१०।' इति नङ् । यसात्स्वमे निधिवत् निधिरिव तव संदर्शनमाभाति । नोऽस्माकमतिदुर्लभत्वात् । स्वम इति '३२६९। स्वपो नन् ।३।३।९।' निधिरिति '३२७०। उपसर्गे घोः किः ।३।३।९।। ५०१-ततो जलधि-गम्भीरान् वानरान् प्रत्युवाच सा-॥
'इयं दानव-राजस्य पू: सृष्टिर् विश्वकर्मणः ॥६७॥ तत इत्यादि-ततस्तस्मादनन्तरं सा प्रत्युवाच । जलं धीयते असिन्निति अधिकरणे चेति किः । जलधिः समुद्रः । तद्वद्गम्भीरानक्षोभ्यत्वात् । इयं पू: दानवराजस्य विश्वकर्मणः सृष्टिः । सृज्यत इति सृष्टिः । कर्मणि '३२७२। स्त्रियां किन् ।३।३।९॥ ॥ __ इतः स्त्रीलिङ्गमधिकृत्योच्यते५०२-निहतश् च स्थिति भिन्दन् दानवोऽसौ बल-द्विषा, ॥
दुहिता मेरुसावर्णेरहं नाना स्वयं-प्रभा. ॥ ६८॥ निहत इत्यादि-असौ दानवराजः स्थिति मर्यादा भिन्दन् । '३२७३। स्थागा पा-पचो भावे ।३।३।९५।' इति क्तिन् । बलद्विषा इन्द्रेण निहतः। यस्य चाहं दुहिता । स पिता । नाम्ना मेरुसावर्णिः, अहं च नाना स्वयंप्रभेति ॥ ५०३-जूतिमिच्छथ चेत् तूर्ण, कीति वा पातुमात्मनः॥
करोमि वो बहिर्-यूतीन् , पिधध्वं पाणिभिदृशः ६९' जूतिमित्यादि-यदि तूर्णं शीघ्रं जूतिं गमनमिच्छथ। कीति वा आत्मनः पातुं रक्षितुम् । वः युष्मान् बहि!तीन् बहिर्भूतान् । '३२७४। ऊति-यूति-१३।३।९७।' इत्यादिना निपातितः। तत्र यौतेर्जवतेश्च क्तिन् दीर्घत्वं च निपात्यते । कीर्तिरपि *१७७५। कृत संशब्दने' स्वार्थिको णिच् । '२५७१। उपधायाश्च 1911१०॥' इतीत्वं तस्मात् क्तिन् । अतः पाणिमिः। दृशो दृष्टीः पिधध्वं भाच्छादयध्वम् । अपिपूर्वाद्धाजो लोटि द्विर्वचने '२५०॥ दध-स्तथोश्च ।।२।३८' इति अभ्यासस्य भभावे '२४८३। भाभ्यस्तयोः-६।४।११२।' इत्याकारलोपे ५२॥झलां जश झशि 1॥४॥५३॥' इति धातोर्दकारे 'वष्टि भागुरिः-' इत्युपसर्गाकारलोपे च रूपम् ॥
१-११६६। रक्ष्णस त्राणे, रणः कणे। इति ॥ २-११९६ । जवने जूतिः सातिः।' इति सर्वत्र ना० १०॥
भ. का. १६ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com