________________
१८. भट्टि-कान्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः, १३।३।७४' इत्यन्तःपूर्वाद्धन्तेरेप् धनादेशः, घेणादेशो वा ये णकारं पठन्ति । यत्तु संज्ञीभूतो वाहीकेषु देशविशेष इत्युक्तं तत् संज्ञाशब्दमाश्रित्य । तस्मिन्नन्तरे यत् सौधसद्म धवलगृहं तस्य प्रघणे एकदेशे। ३२५६। प्रघणः प्रधाणश्च ।३।३।७९।' इति निपातितम् । स्त्रियं ललितापधनां ललिताङ्गीमपश्यन् । '३२५९। अपघनो नम् ।३।३।८।' इति निपातनम् । लौहोद्घनघनस्कन्धाः । यस्मिन् स्थापयित्वा काष्ठादीनि संस्क्रियन्ते स उद्धनः तद्वद्धनः स्कन्धो येषामिति । '३२५७। उद्धनोऽत्याधानम् ३३१८०।' इति निपातनम् ॥ ४९७-सा स्तम्बन-पद-न्यासान् विघनेन्दु-सम-द्युतिः ॥
परिघोरु-भुजानाह हसन्ती स्वागतं कपीन्. ॥ ६३ ॥ सेत्यादि-सा स्त्री हसन्ती कपीन् स्वागतं वच आह । कीदृशी। विघनेन्दुसमद्युतिः । विहन्यते अमिभूयते अन्या द्युतिर्येन स विधनः । '३२५९। करणे. ऽयोविदुषु ।३।३।०२।' इत्यप् धनादेशश्च । स चेन्दुश्चेति सः। तत्समा धुतियस्याः । सम्बो हन्यते येन पादन्यासेन स स्तम्बन्नः । तृणकाष्ठादिः । '३२१०॥ स्तम्बे क च ।३।३।८३।' इति करणे कः । '२३६३। गम-हन- ६।४।९८।' इत्युपधालोपः । तादृशः पादन्यासो येषां कपीनामिति । परिहन्यते येन । ३२६१। परौ पः।३।३।०४।' इत्यप् घादेशश्च । परिघो ऽर्गलः । तदनुकारिणो विपुला बाहवो येषामिति ॥ ४९८-पिप्रायो ऽद्रि-गुहोपन्ना धान् संघसमागतान् ॥
फलैर् नाना-रसैश् चित्रैः स्वादु-शीतैश्-च वारिभिः६४ पिप्रायेत्यादि-तान्विविधैः फलैर्वारिभिश्च पिप्राय तर्पितवती । भद्रिगुहो. पत्रान् । अद्रिगुहैव उपन्न आश्रयो येषां कपीनाम् ।३२६३। उपन्न आश्रये ॥३॥ ३३८५।' इत्यप् उपधालोपश्च निपात्यते । संघसमागतान् समूहेनागतान् । उद्घान् प्रशस्तान् । '३२६४॥ संघोद्घौ गण-प्रशंसयोः ।३।३।०६।' इति समुदोरुपपदयोः हन्तेरपि टिलोपश्च निपात्यते ॥ ४९९-निघाऽनिघ-तरु-च्छन्ने तस्मिंस ते लब्धिमैः फलैः ॥
तृप्तास् तां भ्राजथु-मती पप्रच्छु:-'कस्य पूरियम्.'६५ निघेत्यादि-तसिन्प्रघणे निघानिधैर्निमितानिमितरुभिश्छबैः । ३२६५। निधो निमितम् ।३।३।०७।' इति निपूर्वाद्धन्तेरपि टिलोपो लिपात्यते । समारोहपरिरोहाभ्यां निमितमित्युच्यते। ते कपयः। लब्ध्रिमैलामनिवृत्तः । ४२६६॥ द्वितः
१-११९३॥ स्तम्बन्नस् तु स्तम्बधनः स्तम्बो येन निहन्यते ।। २–११७७स्यादुपनो ऽन्तिकाश्रये ।। ३-१४९। मतल्लिका मचर्चिका प्रकाण्डमुद्ध-तडजो। प्रशस्तवाचकाम्यमूनि ।' इति सर्वत्र ना० म०. .
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com