SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः - १८७ त्रिंशदित्यादि - त्रिंशतः पूरणम् । '१८५६ ॥ विंशत्यादिभ्यः - १५/२/५६१ इति तमट् । त्रिंशत्तमं यदहः तत् प्रत्यागमावधिं प्रत्यागमनस्यावधिं यातं अतीतं मत्वा अकृतार्था अनिष्पादितप्रयोजना विषीदन्तो विषादं गच्छन्तो वयं परलोकमुपास्महे प्रायोपवेशनेन त्रियामहे ॥ ५२४ - म्रियामहे, न गच्छामः कौशल्यायनि वल्लभाम् ॥ उपलम्भ्याम- पश्यन्तः कौमारीं पततां वर ! ॥९०॥ म्रियामह इत्यादि - हे पततां पक्षिणां वर ! म्रियामहे न गच्छामः किमिति कौमारीं अकृतपूर्वदारपतिं लब्धवतीम् । '१२१४ | कौमारा पूर्ववचने | ४|२|१३| इति साधुः । कौशल्यायनिवल्लभाम् । कौशल्याया अपत्यं कौशल्यायनी रामः । * ११७९ | कौशल्य - कार्मार्याभ्यां च |४|१|१५५ ।' इति फिञ् । फस्यायनादेशः । तस्य वल्लभां इष्टां उपलम्भ्यां प्रशस्ताम् । '२८४४ | पोरदुपधात् | ३|१|९८ | ' इति यत् । '२८४६ । उपात्प्रशंसायाम् |७|१|६६ |' इति यत्प्रत्यये नुम् । अपश्यन्तोऽनुपलभमानाः । एते प्रकीर्णकाः ॥ इतः क्किदतिशेषमधिकृत्याह - ५२५ - जगाद वानरान् पक्षी - ' नाध्यगीढुं ध्रुवं स्मृतिम् ॥ यूयं संकुटितुं यस्मात् काले ऽस्मिन्नध्यवस्यथ ॥९१॥ जगादेत्यादि - ध्रुवं अवश्यं स्मृतिं स्मृतिशास्त्रं नाध्यगीढुं नाधीतवन्त इति पक्षी वानरान् जगाद । '२४६०। विभाषा लुङ् - लुङोः | २|४|५०|' इति विभाषा गाङादेशः । ' २४६१। गाङ्कुटादिभ्यः - |१२|१|' इति सिचो ङित्वम् । '२३६२। घुमा-स्था-|६|४|६६ । ' इतीत्वम् ' २२४९ | धिच |८|२| २५ | ' इति सिचो लोपः । '२२४७॥ इणः षीध्वम् |८|३|७८|' इति मूर्धन्यः । यस्माद्यूयमस्मिन् काले संकुटितुं अवसातुमध्यवस्यथ अभिप्रायं कुरुथ । कुटादित्वात् ङित्त्वम् ॥ अयमेवावसातुं काल इति चेदाह - ५२६- नाऽयमुद्विजितुं कालः स्वामि- कार्याद् भवादृशाम् ॥ हृत-भार्ये च्युते राज्याद् रामे पर्युत्सुके भृशम् ॥९२॥ नायमित्यादि - भवादृशां युष्मद्विधानां स्वामिकार्यादुद्विजितुं नायं कालः । '२५३६ | विजः । १२२ ।' इति ङित्त्वम् । किमिति न भवतीति चेदाह - राज्यायुते भ्रष्टे रामे निर्वासितत्वात् । तत्रापि हृतभार्ये भृशमत्यर्थ पर्युत्सुके सीतायाम् ॥ ५२७ - यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्, ॥ प्रोर्णुवित्रीं दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम्. ॥९३॥ यत्तमित्यादि - दक्षिणां दिशं प्रोर्णवितुं आच्छादयितुं छादयिष्याम इति तुमन् । वर्ण शीघ्रं यत्नं कुरुत । तस्यां दिशि पुरीं द्रक्ष्यथ । काञ्चनीम् । '१५३२२ प्राणिरजतादिभ्यो ऽञ | ४ | ३ | १५४ |' प्रोर्णुवित्रीं भमिव्यापिनीम् । तृचि रूपस् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy