________________
१७८ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
आदरेणेत्यादि-विषमेष्वपि प्रदेशेषु गमं गमनं चक्रुः । आदरेणानवज्ञया । आहे त्यप् । असङ्घसाः त्यक्ताहाराः । ३२३५। उपसर्गेऽदः ।३।३।५९।' इत्यपि. '३२३६। घजपोश्च ।२।४॥३८॥ इति अदेस्लादेशः । हरीन् सिंहान् । सव्यधान् साहारान् । '३२३७) व्यध-जपोः-३॥३॥६॥' इत्यप् । सप्रहारत्वादन्यादान परित्यक्ताहारान् कुर्वन्तः । '३२३७। नौ ण च ।३।३।६०॥' इति निपूर्वाददोऽण प्रत्ययः । तस्मिनदेर्न घस्लादेशः। चकारादपि तत्र निघसः । दिशो व्यानुवन्तः सर्वव्यापिनः ॥ ४९१-संचेरुः स-हसाः केचिद,-स्वनाः केचिदाटिषुः ॥
संयाम-वन्तो यति-वन् , निगदानपरे ऽमुचन्. ॥५॥ संचरित्यादि-सहसाः सस्मिताः। अस्वनास्तूष्णीकाः । '३२३९। स्वन. हसोर्वा ॥३॥३॥६॥' इत्यप् । यतिवत् संयामवन्तः नियमवन्तः ३२४०। यमः समुप-नि-विषु च ।३।३।६३।' इति पञ् । आटिषुः अटितवन्तः । अटेर्लुङि रूपम् । अपरे निगदान्वचनान्यमुचन् । '३२४१। नौ गद-३।३।६४।' इत्यादिना विकपेनापो विधानात् घम् ॥ ४९२-अथ क्लमाद-निवाणा नराः क्षीण-पणा इव ॥
अ-मदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः॥५८॥ अथेत्यादि-अथ परिभ्रमणादनन्तरं कुमेन परिश्रमेण अमदाः गतहर्षाः । '३२४४। मदो ऽनुपसर्गे ॥३॥३॥६७।' इत्यप् । अत एव निःकाणाः निश्शब्दाः ३२४२॥ कणो वीणायां च ॥३॥३॥६५।' इत्यपो विकल्पेन घम् । वीणादिविषयमतत् । कणेनिपूर्वादनुपसर्गाद्वीणादिविषयाच्च विकल्पेनाप्प्रत्यय इत्युकम् । एकसिन् गिरेनितम्बे सेदुः निषण्णाः। निखिलाः समस्ता वानराः क्षीणपणा इव अर्थरहिता नरा इव । पण्यन्त इति पणाः । व्यवहाराय कृते पणे व्यवस्थाप्यन्ते । ३२४३॥ नित्यं पणः परिमाणे ॥३॥३॥६६॥' इत्यम् ॥
४९३-ततः स-संमदास् तत्र निरैक्षन्त पतत्रिणः ॥
गुहा-द्वारेण निर्यातः समजेन पशूनिव. ॥ ५९॥ तत इत्यादि-ततो विश्रामानन्तरं ते तत्र तस्मिन् पर्वते पतत्रिणः पक्षिणो निरक्षन्त ईक्षितवन्तः । ईक्षेर्लङि रूपम् । कीदृशान् । गुहाद्वारेण निर्यातः निर्ग
१-११७० । निगादो निगदे, मादो मद, उद्वेग उद्भमः ।' २-१९७१ निकाणो निकणः काणः कणः कणनमित्यपि । १९८ वीणायाः कणिते प्रादेः प्रकाणः प्रकणादयः । ३–१२५३ । पणो द्यूताऽदिषूत्सृष्टे भृतौ मूल्ये धने ऽपि च ।। ४-३४४॥ कटको ऽस्त्री नितम्बो ऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् ।' ५–५६२॥ पशूनां समजो ऽन्येषां समाजोऽथ सधर्मिणाम् ।' इति सर्वत्र ना० अ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com