________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १७४ ४८६-प्राची तावद्भिर-व्यग्रः कपिभिर् विनतो ययौ ॥.
अ-प्रयाहैरिवाऽऽदित्यो वाजिभिर-दूर-पातिभिः. ५२ प्राचीमित्यादि-कपिभिस्तावद्भिरित्येककोटिसंघातैः सह विनतः प्रणतः । सुग्रीव इत्यर्थात् । अव्यग्रः अनाकुलः । प्राची पूर्वी दिशं ययौ । यथा आदित्यो वाजिभिरप्रयाहैः मुक्तबन्धनैः करणभूतैः । '३२२८१ रश्मौ च ॥३॥३॥५३॥' इति घञ् । दूरयायिभिः ॥ ४८७-ययुर् विन्ध्यं शरन्-मेधैः प्रावारैः प्रवरैरिव ॥
प्रच्छन्नं मारुति-प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः ॥ ५३ ॥ • ययुरित्यादि-मारुतिप्रष्ठाः हनूमदग्रेसराः सीतां द्रष्टुं विन्ध्यपर्वतं ययुः। शरन्मेधैः प्रावारैरिव प्रच्छन्नम् ३२२९। वृणोतेराच्छादने ।३।३।५४।' इति घञ्। प्रवरैः श्रेष्ठैः । अनाच्छादने आहेत्यादिना अप् ॥ ४८८-परिभावं मृगेन्द्राणां कुर्वन्तो नर्ग-मूर्धसु ॥
विन्ध्ये तिग्मांशु-मार्गस्य चेरुः परिभवोपमे. ॥ ५४ ॥ परीत्यादि-मृगेन्द्राणां सिंहानां परिभावमभिभवं कुर्वन्तः । विन्ध्ये चेरुः भ्रान्ताः । ३२३०। परौ भुवो ऽवज्ञाने ।३।३।५५।' इति घन । कीदृशे [ तिग्मांशुमार्गस्य ] परिभवोपमे। आदित्यमार्गस्य परिभवनम् । अत्युच्चत्वात् । घनभावपक्षे अप् ॥ ४८९-भ्रमुः शिलोच्चयांस तुङ्गानुत्तेरुरतरान् नदान् ॥
आशंसवो लवं शत्रोः सीतायाश् च विनिश्चयम् ५५ . भ्रमुरित्यादि-उत्पूर्वाच्चिनोतेः '३२३१॥ इरच ३।३।५६।' इत्यच् । शिलाभिरुच्चयो येषां तान् शिलोच्चयान्। भ्रमुः भ्रमणक्रियाया व्याप्यत्वात् सकर्मकता । नदान अतरान् तरितुमशक्यान् उत्तेरुः उत्तीर्णवन्तः। शत्रोलवमुच्छेदनम् । सीतायाश्च विनिश्चयं विनिर्णयम् । आशंसवः आशंसनशीलाः । '३१४८। सनाशंसमिक्ष उः ॥३२॥१६॥' तरलवौ ३२३२॥ ऋदोरम् ।३।३।५७।' इति अप्प्रत्ययान्तो विनिश्चयमिति ग्रहे त्यप् ॥ ४९०-आदरेण गमं चक्रुर्
विषमेष्वप्य-सङ्घसाः॥ व्यामुवन्तो दिशो ऽन्यादान् कुर्वन्तः स-व्यधान् हरीन. ॥ ५६ ॥
१-६८१ । द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथा । २-१२२।। शैल-वृक्षौ नगावगौ।' इति ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com